________________
७४
जैन सिद्धान्त दीपिका मजातीयप्रकृतीनां मिथ: परिवर्तनम्-संक्रमणा' । उदयोदीरणानिधत्तिनिकाचनाऽयोग्यत्वम्-उपशमः । उद्वर्तनापवर्तनं विहाय शेषकरणायोग्यत्वम्-निधत्तिः । समस्तकरणायोग्यत्वम्-निकाचना।
४. कर्मपुद्गलादानं बन्धः ।
जीवस्य कर्मपुद्गलानामादानम्-सीरनीरवन् परम्पराश्लेषः-बन्धोऽभिधीयते । स च प्रवाहरूपेण अनादिः, इनरेतर. कर्मसम्बन्धरूपेण सादिः । ___ अमूर्तस्यापि आत्मनः अनादिकर्मपुद्गलसम्बन्धवत्त्वेन कथंचिद् मूनवस्वीकारात् कर्मयुदगलानां सम्बन्धो नामंभवी।
१. यथा-अध्यवमायविशेषेण सातवेदनीयम् असातवेदनीयरूपेण; असातवेदनीयं च सातवेदनीयरूपेण परिणमति ।
मायुषः प्रकृतीनां दर्शनमोहचारित्रमोहयोश्च मिथः संक्रमणा न भवति ।