________________
१५६
जैनसाहित्य और इतिहास
अर्थः प्रयोजनं । अभ्युदयो निःश्रेयसं च । तयोः सम्बन्ध उपायोपेयभावः । ते येनं सर्वसत्वहितेन सता तत्त्वतः प्रज्ञापिताः तस्मै परमाहत्यमहिम्ना विराजमानाय भगवते वर्द्धमानाय षडपि द्रव्याणि अशेषाणि अनन्तपर्यायरूपाणि साकल्येन साक्षात्कुर्वते नमः कुर्वे इत्युपस्कारः । एवं कृतमंगलरक्षाविधानः । परिपूर्णमल्पग्रन्थं लघूपायं शब्दानुशासनशास्त्रमिदं महाश्रमणसंघाधिपतिभगवानाचार्यः शाकटायनः प्रारभते । शब्दार्थज्ञानपूर्वकं च सन्मार्गानुष्ठानं । अ इ उ ण । ऋक् । ए ओ ङ् ।...... हल् ॥ १३ ।। इति वर्णसमाम्नायः क्रमानुबन्धोपादानः प्रत्याहारयन् शास्त्रस्य लाघवार्थः । सामान्याश्रयणादीर्घप्लुतानुनासिकानां ग्रहणं ।
-अमोघवृत्ति श्रियं क्रियाद्वः सर्वज्ञानज्योतिरनीश्वरी । विश्वं प्रकाशयचिन्तामणिश्चिन्तार्थसाधनः ।। १ नमस्तमः प्रभावाभिभूतभूद्योतहेतवे । लोकोपकारिणे शब्दब्रह्मणे द्वादशात्मने ।। २ स्वस्ति श्रीसकलज्ञानसाम्राज्यपदमाप्तवान् । महाश्रमणसंघाधिपतियः शाकटायनः ।। ३ ।। एकः शब्दाम्बुधिं बुद्धिमन्दरेण प्रमथ्य यः । सयशश्रीः समुद्दभ्रे विश्व व्याकरणमृतम् ।। ४ ।। स्वल्पग्रन्थं सुखोपायं सम्पूर्ण यदुपक्रमं । शब्दानुशासनं सार्वमर्हच्छासनवत्परम् ॥ ५ ॥ इटिष्टा न वक्तव्यं वक्तव्यं सूत्रतः पृथक् । संख्यातं नोपसंख्यानं यस्य शब्दानुशासने ।। ६ ।। तस्यातिमहतीं वृत्तिं संहृत्येयं लघीयसी । सम्पूर्णलक्षणा वृत्तिर्वक्ष्यते यक्षवर्मणा ॥ ७ ॥ ग्रन्थविस्तरभीरूणां सुकुमाराधियामयं । शुश्रूषादिगुणान्कर्तु शास्त्रे संहरणोद्यमः ।। ८ ।। शब्दानुशासनस्यान्वयाश्चिन्तामणेरिदं । वृत्तेर्ग्रन्थप्रमाणं (हि) षट्सहस्रं निरूपितं ।। ९ ।। इन्द्रचन्द्रादिभिः शाब्दैर्यदुक्तं शब्दलक्षण । तदिहास्ति समस्तं च यत्ने हास्ति न तत्वचित् ।। १० ।।