________________
चतुविशति यक्ष
अजित
चंद्रप्रभजिनेन्द्रस्य श्यामो यक्षस्त्रिलोचन: फलाक्षसूत्रकं धत्ते परशुं च वरप्रदः ।।
वसुनन्दि, ५/३०
श्यामानिभो हंसगतिस्त्रिनेत्रो द्विबाहुधारी कर एव वामे | सन्मुद्गरं दक्षिण एव चक्रं वहन् जयं श्रीविजयः करोतु ॥
आचारदिनकर, उदय ३३, पन्ना १७४
विजययक्षं हरितवर्णं त्रिनेत्रं हंसवाहनं द्विभुजं दक्षिणहस्ते चक्रं वामे मुद्गरमिति ।
निर्वाणकलिका, पन्ना ३५
तीर्थेभूद् विजयो यक्षो नीलाङ्गो हंसवाहनः । सङ्गं दक्षिणं बाहुं बहून् वामं समुद्रम् ।। अमरचन्द्र, अष्टमजिनचरित्र, १७
महाक्षमाला वरदानशक्ति फलापमव्यापरपाणियुग्मः । स्वारूढ़कूर्मो मकरांकभक्तां गृहणातु पूजामजितः सिताभः ॥ प्रशाधर, ३/१३७
यजामहे शक्ति फलाक्षमालावरांकवामेतरहस्तयुग्मम् । पुष्पेषु निप्पेषक पुष्पदन्तश्रीपादभक्ताजितयक्षनाथम् ।। नेमिचन्द्र, ३३३
प्रजिनः पुष्पदन्तस्य यक्षः श्वेतश्चतुर्भुजः । फलाक्षसूत्रशभचाढ्प्रो वरदः कूर्मवाहनः ।।
वसुनन्दि, ५ / ३२
कूर्मारूढो धवलकरणो वेदबाहुश्च वामे हस्तद्वन्द्वं नकुलमनुलं रत्नमुत्तंसयंश्च । मुक्तामालां परिमलयुतं दक्षिणे बीजपूरं सम्यग्दृष्टिप्रमृमरधियां सोऽजितः ।।
प्राचारदिनकर, उदय ३३, पन्ना १७४
१५३