________________
परिशिष्ट दो जैन प्रतिमा लक्षण
श्रतदेवता
श्रुतदेवता श्वेतवर्णा श्वेतवस्त्रधारिणी हंसवाहना श्वेतसिंहासनासीना भामण्डलालंकृता चतुर्भुजा श्वेताब्जवीणालंकृतवामकरा पुस्तकमुक्ताक्षमालालंकृतदक्षिणकरा......
प्राचारदिनकर उदय ३३, पन्ना १५५
श्रुतदेवनां शुक्लवर्णी हंसवाहनां चतुर्भुजां वरदकमलान्वितदक्षिणकरां पुस्तकाक्षमालान्वितवामकरां चेति ।
निर्वाणकलिका, पन्ना ३७ दक्षिणपाश्र्वासीनधवलमूर्तिवरदपद्माक्षसूत्रपुस्तकालंकृतानेकपाणिद्वादशाङ्गश्रुतदेवाधिदेवते सरस्वत्यै स्वाहा ।
निर्वाणकलिका, पन्ना १७ अभयज्ञानमुद्राक्षमालापुस्तकधारिणी । त्रिनेत्रा पातु मां वाणी जटाभालेंदुमण्डिता ।।
मल्लिषेण, भारती कल्प, १-२
सितांबरां चतुर्भुजां सरोजविष्टरसंस्थिताम् । सरस्वती वरप्रदामहनिशं नमाम्यहम् ।।
___ मल्लिषेण, भारतीकल्प चंचच्चन्द्ररुचं कलापिगमनां य: पुण्डरीकासना सज्ञानाभयपुस्तकाक्षवलयप्रावारराज्युज्ज्वलाम् । त्वामध्येति सरस्वति विनयनां ब्राह्म मुहूर्ते मुदा व्याप्तासाधरकीतिरस्तु सुमहाविद्यः स वंद्यः सदा ।।
मलयकीति, सरस्वतीकल्प