________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
भ्रान्तिर्यस्याप्यजस्त्रमनुस्मृतेः || २ || उपकृतिमतिर्दाने दक्षो निरस्तजगद्व्यथः, समुचितकृतिर्विज्ञानांशु प्रकाशितसत्पथः । नृपगणगुरोर्विष्णोर्वशे प्रभाकरसंनिभः, स भवतु मम श्रेयांसो नः प्रबोधसमृद्धयो || ३ ||
॥ अथ श्रीवासुपूज्य जिनचैत्यवंदन ॥ ( रथोद्धता छन्दः । )
पूर्णचन्द्रकमनीयदीधितिभ्राजमानमुखमद्भुतश्रियम् । सान्तहष्टिमभिरामचेष्टितं, शिष्टजन्तुपरिबोष्टितं परम् ॥ १ ॥ नष्टदुष्ट मतिभिर्यमीश्वरं संस्मरद्भिरिह भूरिभिर्नृभिः । क्षीणमोहसमयादनन्तरा, प्रापि सत्यपरमात्मरुपता || २ || पार्थिवेशवसृ पूज्य वेश्मनि, प्राप्तपुण्यजनुषं जगत्प्रभुम् । वासुपूज्यपरमेष्ठिनं सदा, के स्मरन्ति न हितं विपश्चितः ॥ ३ ॥
1
[ त्रिविः संटकः । ]
॥ अथ श्री विमल जिनचैत्यवंदन ॥ ॥ मंदाक्रान्ता छन्दः ॥
संसारेऽस्मिन्महति महिमामेयमानन्दरूपं, त्वां सर्वज्ञं सकलकृतिश्रेणिसंसेव्यमानम् । दृष्ट्वा सम्यग्विमलसदसज्ज्ञानधाम प्रधानं, संप्ताप्तोऽहं प्रशमसुखदां संभृतानन्दवीचिम् ॥ १ ॥ ये तुं स्वा
For Private And Personal Use Only