________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०३
हानेकांतानलसमदया वंदितायासमान ॥ १ ॥ जीयाद्राजी जनित -- जननज्यानिहा निर्जिनानां । सत्यागारं जयदमितरुक सारविंदावतारं ॥ भव्यधृत्या भुवि कृतवती यावद्धर्मचक्रं । सत्यागा रंजयदमितरुक सा रविं दावतारं || २ || सिद्धांतः स्तादहितहवयेऽख्यापय जिनेंद्र: । सद्राजीवः स कविधिषणापादनेऽकोपमानः || दक्षः साक्षात् श्रवणचुलुकैर्ये च मोदाद्विहायः -- सदाजी वः सकविधिषणा पादने कोपमानः ॥ ३ ॥ बज्रां कुश्यंकुशकुलिशभृत्वं विधत्व प्रयत्नं । स्वायत्यागे तनुमदवने हेऽमतारातिमत्ते || अध्यारूढे शशधरकर श्वेतभासि द्विवेंद्रे । स्वायत्यागेऽनुमदवने हेमतारा तिमते ॥ ४ ॥
॥ अथ श्री सुविधिजिनस्तुतिः ॥ उपजातिवृत्तम्.
तवाभिवृद्धिं सुविधिर्विधेयात् । स भानुरालीनतपा दयावन् ॥ यो योगिपंक्त्या प्रणतो नमः स--त्सभाऽसुरालीनतपादयाऽवन् || १ || या जंतुजाताय हितानि राजी। साराजिनानामलपद्ममालं ॥ दिश्यान्मुदं पादयुगं दधाना । साराजिनानामलपद्ममाल ॥ २ ॥ जिनेंद्र भंगैः प्रसभं गभीरा -- शुभारती शस्यतमस्तवेन । निर्नाशयंती, मम, शर्म, दिश्याच्छुभा रतीशस्य तमस्तवेन ॥ ३ ॥ दिश्यातवाशु ज्वलनायुधाल्प- - मध्यासिता के मबरालकस्य ॥ अस्तेदुरास्यस्य चोपृष्ठ -- मध्यासिताकं मत्रराककस्य ॥ ४ ॥
For Private And Personal Use Only