________________
Bisapanthi Dig. Jain Temple Granth Bhandar Nagaur
1137
येन स्तुतोऽसि गत कुतल-ताप-हार ! . . चक्राऽसि चाप शर कुतलताऽपहार !.. भव्य-प्रभो ! सुमतिनाथ ! वरा न तेन , का माऽऽश्रिता सुमतिनाथ वरानतेन ॥५॥ मोह-प्रमाद-मद कोप रताऽपनाशः , पंचेन्द्रियाऽर्थ मदकोऽपर-ताप-नाशः । पद्मप्रभो दिशतु मे कमलां वराणां , मुक्तात्मनां विगत-शोक-मलाऽम्बराणां ॥६॥ ये त्वां नमन्ति विनयेन मही-नभो गाः , श्री मत्सुपार्श्व ! विनयेन महीन भोगा: । ते भक्त-भव्य-सुरलोक ! वि-मान-मायाः , ईशा भवन्ति सुरलोक विमान मायाः ।।७।। अाकर्ण्य . तावक वचो वनिनायकोऽपि . शातिं मनः शम धियाऽवनि-नायकोऽपि । चन्द्रप्रभः ! प्रभजति स्म रमाऽविनाशं , दोर्दण्डमण्डित-रति-स्मर-मा-विनाशं ॥८॥ श्री पुष्पदन्त जिन जन्मनि का ममाऽऽशा , यामि प्रिये ! वितनूतां च निकाममाशा । इत्थं रति निगदताऽतनुना सुराणां । स्थानं व्यधायि हृदये तनुनाऽसुराणां ॥९॥ श्री शीतलाऽधिप ! तवाऽधि सभं जनानां , भव्यात्मनां प्रसूति संसृति भंजनानाम् । प्रीतिं करोति विततां सुरसातिमुक्ति , मुक्तात्मनां जिन ! यथा सुरसाऽरमुक्तिः ।।१०।। पादद्वये मुदित-मानसमानतानां , श्रेयन् ! मुने ! विगत-मान ! समानतानाम् । शोभां करोति तव कां च न भासुराणां , देवाऽधिदेव ! मणिकांचन भासुराणाम् ।।११।। घोरान्धकार--नरक- क्षत वारणानि , श्री वासुपूज्य ! जिनदक्ष ! तंवाऽरणानि । मुक्त्यै भवन्ति भव सागर तारणानि , वाक्यानि चित्त भव सागरतारणानि ॥१२॥