________________
(१८) एतस्य दुःखं न भवद्भिरिष्टं
न प्रत्यवायोऽपि कदाचनाऽपि । दुःखादिभेदत्रितयं न वक्तुं युक्तं ततो यौगधुरन्धरस्य ॥९॥ पुण्यकारुण्यपीयूषपूरेणाऽत्यन्तपूरितः।
प्रवर्तते जगत्सर्गे भर्ग इत्यपि भङ्गुरम् ॥ १० ॥ यत:क्षुद्रग्रामे निवासः कचिदपि सदने रौद्रदारिद्रयमुद्रा जाया दुर्दर्शकाया कटुरटनपटुः पुत्रिकाणां सवित्री। दुःस्वामिप्रेष्यभावो भवति भवभृतामत्र येषां वतैतान् शम्भुर्दुःखैकदग्धान् सृजति यदि तदा स्यात्कृपा कीगस्य ।
अथ धर्ममधर्ममङ्गभाजां
सचिवं कार्यविधावपेक्षमाणः सुखमसुखमिहार्पयद् गिरीशस्त
दवरमुपरि निषेधनादमुष्य ॥ १२ ॥ स्वभाव एवैष पिनाकपाणे:
प्रवर्तते विश्वविधौ यदेवम् । खभाव एवैष रविर्जगन्ति प्रकाशयत्येष यदित्ययुक्तम् ॥ १३॥