________________
( १२ )
साधारणं सकलकार्यविधौ निदानम् ॥ ५० ॥
स्वस्वार्जिताशुभशुभावहकर्मभेदात् 'प्राप्नोति जीवनिवहः फलभेदमद्धा । आन्ध्येन पङ्गुसदृशाक्षमकर्मवृन्दाऽधिष्ठानतात निदानगुणो महेशः ॥ ५१ ॥ क्षेत्री लभेत यदि कर्षणवीजवाप
दाक्ष्यप्रमादवशतः फलसिद्ध्यऽ-सिद्धी । दोषोऽत्र नैव जलदस्य तथेश्वरस्य
वैषम्यनिर्घृणतयोर्न यतः प्रसङ्गः ॥ ५२ ॥ अन्येषु हेतुषु तु सत्स्वऽपि कर्ष्टचेष्टा
स्यान्निष्फला जलधरो यदि न प्रवर्षेत् । साधारणो जलधरः किल तेन हेतुः
सारीतिर प्रतिहता परमेश्वरेऽपि ॥ ५३ ॥ जीवो न वेत्ति सकलं स्वमपीह कर्म
दूरे परस्य कथमेव ततोऽधितिष्ठेत् । सर्वज्ञतां तदुचितां हि वहन परेशोऽधिष्ठानताभर सहोऽल्पमतिर्न जीवः ॥ ५४ ॥ इत्युक्तयुक्तिनिवहैः परमेशसिद्धौ तस्य प्रपञ्च हितसाधनमार्गदर्शी ।