________________
: चार: १-दशवै०४-गाथा० ११ से २५ तक २-नादंसणिस्स नाणं, नाणेण विना न हुँति चरणगुणा। अगुणिस्स नत्थि मोक्खो, नत्थि अमोक्खस्स निव्वाणं ।
-उत्त० २८३० ३-भग०८१०] ३५४ ४-मिथ्या विपरीता दृष्टिर्यस्य स मिथ्याष्टिः-मिच्छादिष्टिगुणहाणा।
मिथ्या विपर्यस्ता दृष्टिरहत्प्रणीतजीवाजीवा दिवस्तुप्रतिपत्तिर्यस्य भक्षितहृत्पूरपुरुपस्य सिते पीतप्रतिपत्तिवत् स मिथ्याष्टिस्तस्य गुणस्थानं ज्ञानादिगुणानामविशुद्धिप्रकर्पविशुद्धय्पकर्षकृतः स्वरूपविशेषो मिथ्यादृष्टि गुणस्थानम् । ननु यदि मिथ्याष्टिस्ततः कथं तस्य गुणस्थानसम्भवः, गुणा हि ज्ञानादिरूपास्तत्कथं ते दृष्टौ विपर्यस्तायां भवेयुरिति ? उच्यते इह यद्यपि सर्वथाऽतिप्रवलमिथ्यात्वमोहनीयोदयादहव्यणीतजीवाजीवादिवस्तुप्रति पत्तिरूपा दृष्टिरसुमतो विपर्यस्ता भवति तथापि काचिन्मनुष्यपश्वादिप्रतिपत्तिरविपर्यस्ता, ततो निगोदावस्थायामपि तथाभूता व्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ता भवति अन्यथा अजीवत्वप्रसङ्गात् , यदाह अागमः'सब जीवाणं पिअणं अक्खरस्स अर्णतभागो निच्चुग्धा डिओ चिइ, जइ पुण सोवि श्रावरिज्जा, तेणं जीवो अजीवत्तणं पाविज्जा, इत्यादि । तथाहि समुन्नतातिवहलजीमूतपटलेन दिनकररजनीकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभानाशः संपद्यते, प्रतिप्राणिप्रसिद्ध दिनरजनीविभागाभावप्रसङ्गात् । एवमिहापि प्रवलमिथ्यात्वोदये काचिदविपर्यस्तापि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसंभवः । यद्येवं ततः कथमसौ मिथ्याष्टिरेव मनुष्यपश्वादिप्रतिपत्त्यपेक्षयाऽन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्यपेक्षया वा सम्यग्दृष्टित्वादपि नैप दोषः, यतो भगवदर्हत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद गदितमेकमप्यतरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते तस्य