SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ -५.० S86 ५ सागरमेघः। दर्शनविज्ञप्याश्रयन्यूहं शृणोमि । अचिन्त्याप्रमाणां वामदक्षिणेन शरीरविभक्तिन , अचिन्त्वं सत्त्वार्थकायपरिप्राप्तिं पश्यामि ॥ स च मे तथागतो दक्षिणं पाणिं प्रसार्य शिरसं परिमार्य समन्तनेत्रं नाम धर्मपर्याय सर्वतथागतविषयं वोधिसत्त्वचर्याप्रभावनं सर्वधर्मधातुतलप्रभेदावभासनं सर्वधर्ममण्डलसमवसरणावभासनं सर्वक्षेत्रमण्डलाकारविशुद्ध्यालोकं सर्वपरप्रवादिमण्डलविकिरणं सर्वमार- 5 कलिप्रमर्दनं सर्वसत्त्वधातुसंतोपणं सर्वसत्त्वचित्तगहनावभासनं सर्वसत्त्वयथाशयविज्ञापन सर्वसत्त्वेन्द्रियचक्रपरिवर्तप्रभासनं प्रकाशयति । तं चाहं समन्तनेत्रं धर्मपर्यायमुगृह्णामि संधारयामि प्रवर्तयामि उपनिध्यायामि एवंरूपेणोद्हेण, यस्य लिख्यमानस्य महासमुद्राप्स्कन्धप्रमाणा च मषिः, सुमेरुपर्वतराजमात्रकलमसंचयः क्षयं ब्रजेत् । न च तस्य धर्मपर्यायस्य एकैकस्मात्परिवर्तादेकैकस्माद्धर्मद्वारादैकैकस्माद्धर्मनयादेकैकस्माद्धर्मयोनेः एकै- 10 कस्माद्धर्मपदप्रभेदात् क्षय उपलभ्यते, न ऊनत्वं वा पर्यादानं वा पर्यवस्थानं वा पर्यन्तनिष्ठा वा ॥ इति हि कुलपुत्र पूर्णानि द्वादश वर्षाण्यहमिमं समन्तनेत्रं धर्मपर्यायमुद्गृहीतवान् । एवंरूपेणोद्हेण यदेकदिवसेन असंख्येयान् परिवर्तान् पर्यवाप्नोमि श्रुतोद्रहणवारण्यालोकावभासेन । असंख्येयान् परिवर्तानवतरामि शान्तमुखधारण्यालोकावभासेन । असंख्येयान् 15 परिवर्तान् अवतरामि शान्तमुखधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् समवसरामि अनन्तावर्तधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् विभावयामि प्रतिचिनोमि भूम्यवचारणानुगमधारण्यालोकावभासेन । असंख्येयान् परिवीन् पर्याददामि तेजोवतीधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् अभिनिहरामि पद्मव्यूहधारण्यालोकावभासेन । असंख्येयान् परिवीन् संप्रकाशयामि खरविविक्तधारण्यालोकावभासेन । असंख्ये- 20 यान् परिवर्तान् प्रतिभजामि गगनगर्भधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् प्रविस्तरामि ज्योतिषकूटधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् परिसंस्थापयामि सागरगर्भधारण्यालोकावभासेन । ये च मे केचित् सत्त्वा उपसंक्रामन्ति पूर्वस्यां दिशि देवा वा देवेन्द्रा वा नागा वा नागेन्द्रा वा यक्षा वा यक्षेन्द्रा वा असुरा वा असुरेन्द्रा वा गरुडा वा गरुडेन्द्रा वा महोरगा वा महोरगेन्द्रा वा मनुष्या वा मनुष्येन्द्रा वा ब्रह्माणो वा 25 ब्रह्मेन्द्रा वा, तान् सर्वानत्रैव समन्तनेत्रे तथागतवोधिसत्त्वचर्यावभासे धर्मपर्याये प्रतिष्ठापयामि निवेशयामि । सर्वेषां च तेषामेव समन्तनेत्रं धर्मपर्यायं रोचयामि निरूपयामि परिदीपयामि संवर्णयामि संदर्शयामि विभजामि विस्तारयामि उत्तानीकरोमि विवरामि प्रमुञ्चामि अवभासयामि । यथा पूर्वस्यां दिशि, एवं दक्षिणायाः पश्चिमाया उत्तराया उत्तरपूर्वायाः पूर्वदक्षिणाया दक्षिणपश्चिमायाः पश्चिमोत्तराया अध ऊर्ध्वायाश्च दिशः ये 30 केचित् सत्त्वा उपसंक्रामन्ति-पूर्ववत् ॥ B28 S67
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy