________________
S 32
853
ક
saहसूत्रम् ।
[३.०
सुप्रभेण च श्रेष्ठिदारकेण सार्धमेतत्प्रमुखैः पञ्चभिः श्रेष्ठिदारकशतैः परिवृतः पुरस्कृतो येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत् ॥
तत्र सुभद्रा दारिका महाप्रज्ञस्य गृहपतेर्दुहिता भद्रया च दारिकया सार्धमभिरामवर्तया च दृढमया च श्रीभद्रया च ब्रह्मदत्तया च श्रीप्रभया च सुप्रभया दारिकया सार्धमेतन्प्रमुखैः पञ्चभिर्दारिकाशतैः परिवृता पुरस्कृता येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मनुश्रियः कुमारभूतत्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत् ॥
अथ खलु मञ्जुश्रीः कुमारभूतो धन्याकरान्नगरात् ताः स्त्रीपुरुषदारकदारिकाः 10 संनिपतिताः संनिषण्णा विदित्वा यथाशयं संदर्शनाधिपत्येनाभिभूय महामैत्र्याधिपत्येन प्रह्राद्य महाकरुणाधिपत्येन धर्मदेशनामभिनिर्हृत्य ज्ञानाधिपत्येन चित्ताशयान् प्रविचिन्त्य महाप्रतिसंविदा धर्ममुपदेष्टुकामः सुधनं श्रेष्ठिदारकमवलोकयामास । ( सुधनः खलु पुनः श्रेष्टिदारकः केन कारणेनोच्यते सुधन इति ? सुधनस्य खलु श्रेष्ठिदारकस्य समनन्तरावक्रान्तस्य मानुः कुक्षौ तस्मिन् गृहे सप्त रत्नाङ्कुराः प्रादुर्भूताः समन्ताद्गृहस्य सुविभक्ताः । 15 तेषां च रत्नाङ्कुराणामवः सप्त महानिधानानि, यतस्ते रत्नाङ्कुराः समुत्पत्य धरणितलमभिनिर्भिद्य अभ्युद्गताः सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य सप्तमस्य रत्नस्य । स यदा सर्वाङ्गप्रत्यङ्गैः परिपूर्णो दशानां मासानामत्ययाज्जातः, तदा तानि सप्त महानिधानानि सप्तहस्तायामविस्तीरोद्वेधप्रमाणानि धरणितलादभ्युद्गम्य विवृत्तानि विरोचन्ति भ्राजन्ते स्म । पश्च च भाजनशतानि तस्मिन् गृहे प्रादुर्भूतानि नानारत्न20 मयानि, यदुत सर्पिभाजनानि तैलभाजनानि मधुभाजनानि नवनीतभाजनानि, प्रत्येकं च सर्वोपकरणपरिपूर्णानि । यदुत वज्रभाजनानि सर्वगन्धपरिपूर्णानि सुगन्धभाजनानि, नानावस्त्रपरिपूर्णानि शिलाभाजनानि, नानाभक्ष्यभोज्यरसरसाग्रपरिपूर्णानि मणिभाजनानि, नानारत्नपरिपूर्णानि सुवर्णभाजनानि रूप्यचूर्णपरिपूर्णानि रूप्यभाजनानि सुवर्णवर्णचूर्णपरिपूर्णानि, सुवर्णरूप्यभाजनानि वैडूर्यमणिरत्नपरिपूर्णानि, स्फटिकभाजनानि मुसारगल्व25 परिपूर्णानि, मुसारगल्वभाजनानि स्फटिकरत्नपरिपूर्णानि, अश्मगर्भभाजनानि लोहितमुक्तापरिपूर्णानि, लोहितमुक्ताभाजनानि अश्मगर्भपरिपूर्णानि, ज्योतिर्ध्वजमणिरत्नभाजनानि उदकप्रसादकमणिरत्नपरिपूर्णानि, उदकप्रसादकमणिरत्नभाजनानि ज्योतिर्ध्वजमणिरत्नपरिपूर्णानि । एतव्यमुखानि पञ्च रत्नभाजनशतानि सहजातस्य खलु सुघनस्य श्रेष्ठदारकस्य गृहे सर्वकोशकोष्ठागारेषु धनधान्यहिरण्यसुवर्णविविधरत्नवर्षाण्यभिप्रवर्षितानि । तस्य 30 नैमित्तिकैर्ब्राह्मणैर्मातापितृभ्यां ज्ञातिवर्गेण च विपुलसमृद्धिरस्य जातमात्रस्य गृहे प्रादुर्भूतेति सुधनः सुधन इति नामधेयं कृतम् । ) सुधनः खलु श्रेष्ठिदारकः पूर्वजिनकृताधिकारोऽ
१ S " विस्तार ऊर्ध्वाधः प्रमाणानि .