________________
४३४
[५६,४२
गण्डव्यूहसूत्रम् । ज्येष्ठकु यः सुतु सर्वजिनानां
यस्य च नाम समन्ततभद्रः। तस्य विदुस्य सभागचरीये
नामयमी कुशलं इमु सर्वम् ॥ ४२ ॥ कायतु वाच मनस्य विशुद्धि
श्चर्यविशुद्ध्यथ क्षेत्रविशुद्धिः । यादृश नामन भद्र विदुस्य
तादृश भोतु समं मम तेन ॥ ४३ ॥ भद्रचरीय समन्तशुभाये
मनुशिरिप्रणिधान चरेयम् । सर्वि अनागत कल्पमखिन्नः __पूरयि तां क्रिय सर्वि अशेषाम् ॥ ४४ ॥ नो च प्रमाणु भवेय्य चरीये
नो च प्रमाणु भवेय्य गुणानाम् । अप्रमाण चरियाय स्थिहित्वा
जानमि सर्वि विकुर्वितु तेषाम् ॥ ४५ ॥ यावत निष्ठ नभस्य भवेय्या
सत्त्व अशेषत निष्ठ तथैव । कर्मतु क्लेशतु यावत निष्ठा
तावतनिष्ठ मम प्रणिधानम् ॥ ४६॥ ये च दशदिशि क्षेत्र अनन्ता
रतअलंकृतु दा जिनानाम् । दिव्य च मानुष सौख्यविशिष्टां
क्षेत्ररजोपम कल्प ददेयम् ॥ ४७ ॥ यश्च इमं परिणामनराज
श्रुत्व सकृज्जनयेदधिमुक्तिम् । बोधिवरामनुप्रार्थयमानो ___ अग्रु विशिष्ट भवेदिमु पुण्यम् ॥ ४८ ॥ वर्जित तेन भवन्ति अपाया
वर्जित तेन भवन्ति कुमित्राः। क्षिा स पश्यति तं अमिताभ
यस्थिमु भद्रचरिप्रणिधानम् ॥ १९ ॥
8547
___30
.