________________
-५६.२६ ]
5
५६ समन्तभद्रचर्याप्रणिधानम् । येऽपि च पापक आवरणीया
स्तेषु परिक्षयु भोतु अशेपम् ॥ १९ ।। कर्मतु क्लेशतु मारपथातो
लोकगतीषु विमुक्त चरेयम् । पद्म यथा सलिलेन अलिप्तः
सूर्य शशी गगनेव असक्तः ॥ २० ॥ सर्वि अपायदुखां प्रशमन्तो
सर्वजगत् सुखि स्थापयमानः ।। सर्वजगस्य हिताय चरेयं __ यावत क्षेत्रपथा दिशतासु ।। २१ ॥ सत्त्वचरिं अनुवर्तयमानो
बोधिचरिं परिपूरयमाणः। भद्रचरिं च प्रभावयमानः
सर्वि अनागतकल्प चरेयम् ॥ २२॥ ये च सभागत मम चर्याये
तेभि समागमु नित्यु भवेय्या । कायतु वाचतु चेतनतो वा
एकचरि प्रणिधान चरेयम् ॥ २३ ॥ येऽपि च मित्रा मम हितकामा
भद्रचरीय निदर्शयितारः । तेभि समागमु नित्यु भवेय्या
तांश्च अहं न विरागयि जातु ॥ २४ ॥ संमुख नित्यमहं जिन पश्ये
बुद्धसुतेभि परीवृतु नाथान् । तेषु च पूज करेय उदारां
सर्वि अनागतकल्पमखिन्नः ॥ २५॥ धारयमाणु जिनान सद्धर्म
बोधिचरिं परिदीपयमानः। भद्रचरिं च विशोधयमानः
सर्वि अनागतकल्प चरेयम् ॥ २६ ॥
16
S545
१% अहु.
.