________________
-५६.०] ५६ समन्तभद्रचर्याप्रणिधानम् । सर्वलोकाभ्युद्गतः सर्वजगद्यथाशयविज्ञपनः सर्वत्रानुगतः सर्वबुद्धक्षेत्रप्रसृतः समन्तप्रतिष्टानः सर्वतः सर्वविकुर्वितसंदर्शनः सर्वजगदभिलक्षणीयः । प्रेक्षख कुलपुत्र इमामात्मभावप्रतिलाभसंपदमनन्तकल्पसागरसंभूतां वहुकल्पकोटीनियुतशतसहस्त्रदुर्लभप्रादुर्भावां दुर्लभसंदर्शनाम् । नाहं कुलपुत्र अनवरोपितकुशलनूलानां सत्त्वानां श्रवणपथमप्यागच्छामि प्रागेव दर्शनम् । सन्ति कुलपुत्र सत्त्वाः, ये मम नामधेयश्रवणमात्रेण अवैवर्तिका भवन्त्यनुत्तरायां 5 सम्यक्संबोधौ । सन्ति दर्शनमात्रेण, सन्ति स्पर्शनमात्रेण, सन्त्यनुवजनमात्रेण, सन्त्यनुबन्धनमात्रेण, सन्ति स्वप्नदर्शनेन, सन्ति स्वप्ने नामधेयश्रवणेन अवैवर्तिका भवन्त्यनुत्तरायां सम्यक्संबोधौ । केचित्सत्त्वा मामेकरात्रिंदिवसमनुस्मरमाणाः परिपाकं गच्छन्ति । केचिदर्थमासं केचिन्मासं केचिद्वर्प केचिद्वर्षशतं केचित्कल्पं केचित्कल्पशतं केचिद्यावदनभिलाप्यानभिलाप्यवुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् मामनुस्मरमाणाः परिपाकं गच्छन्ति । केचि-10 sb41 देकजात्या परिपाकं गच्छन्ति मामनुस्मरमाणाः । केचिजातिशतेन, केचिद्यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैातिपरिवर्तेः । केचित्सत्त्वा मम प्रभादर्शनेन परिपाकं गच्छन्ति । केचिद्रश्मिप्रमोक्षसंदर्शनेन, केचित्क्षेत्रप्रकम्पनेन, केचिद्रूपकायसंदर्शनेन, केचित्संग्रहर्षणेन परिपाकं गच्छन्ति । इति हि कुलपुत्र वुद्धक्षेत्रपरमाणुरजःसमैरुपायें: सत्त्वा अवैवर्तिका भवन्त्यनुत्तरायां सम्यक्संबोधौ । ये खलु पुनः कुलपुत्र सत्त्वा 15 मम बुद्धक्षेत्रपरिशुद्धिं शृण्वन्ति, ते परिशुद्धेषु वुद्धक्षेत्रेधूपपद्यन्ते । ये ममात्मभावपरिशुद्धिं पश्यन्ति, ते ममात्मभावे उपपद्यन्ते । पश्य कुलपुत्र इमां ममात्मभावपरिशुद्धिम् ।।
अथ खलु सुधनः श्रेष्ठिदारकः समन्तभद्रस्य बोधिसत्त्वस्य कायमुपनिध्यायन्नद्राक्षीत् एकैकस्मिन् रोमविवरेऽनमिलाप्यबुद्धक्षेत्रसागरान् बुद्धोत्पादपरिपूर्णान् । एकैकस्मिंश्च वुद्धक्षेत्रसागरे तथागतान् बोधिसत्त्वपर्षत्सागरपरिवृतानद्राक्षीत् । सर्वांश्च तान् क्षेत्रसागरान् 20 नानाप्रतिष्ठानान् नानासंस्थानान् नानाव्यूहान् नानाचक्रवालान् नानामेघगगनसंछनान् नानाबुद्धोत्पादान् नानाधर्मचक्रनिर्घोषानपश्यत् । यथा च एकैकस्मिन् रोमविवरे, तथा अनवशेषतः सर्वरोमविवरेषु सर्वलक्षणेषु सर्वानुव्यञ्जनेषु सर्वाङ्गप्रत्यङ्गेषु । एकैकस्मिंश्च क्षेत्रसागरान् सर्ववुद्धक्षेत्रपरमाणुरजःसमान् बुद्धकायनिर्मितमेघान्निर्गम्य दशसु दिक्षु सर्वलोकधातून् स्फरित्वा अनुत्तरायां सम्यक्संबोधौ सत्त्वान् परिपाचयमानानपश्यत् ॥
23 ____ अथ खल्ल सुधनः श्रेष्ठिदारकः समन्तभद्रबोधिसत्त्वाववादाभुशासन्यनुशिष्टः समन्तभद्रबोधिसत्त्वकायान्तर्गतेषु सर्वलोकधातुष्ववतीर्य सत्त्वान् परिपाचयामास । ये च खलु पुनः सुधनस्य श्रेष्ठिदारकस्य बुद्धक्षेत्रपरमाणुरजःसमकल्याणमित्रोपसंक्रमदर्शनपर्युपासनज्ञानालोककुशलमूलोपचयाः, ते समन्तभद्रबोधिसत्त्वसहदर्शनेन कुशलमूलोपचयस्य शततमीमपि कलां नोपयान्ति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीशतसहस्रतमीमपि । संख्यामपि कलामपि 30 गणनामपि उपमामपि उपनिसामपि न क्षमन्ते सप्रथमचित्तोत्पादाय यावत्समन्तभद्रस्य बोधिसत्त्वस्य दर्शनम् । अस्मिन्नन्तरे यावतीर्बुद्धक्षेत्रसागरपरंपरा अवतीर्णस्ततोऽनमिलाप्यानभि