________________
३८८
[५४.१३५
10
गण्डव्यूहसूत्रम् । दुःखधर्म त्वयि सर्व उज्झिताः
सर्वखेद च विवर्जिता भव ॥ १३५ ।। बालभूमि विनिवर्तिता त्वया
बोधिसत्त्वगुणभूमिसुस्थितः । ज्ञानभूमि परिपूर्य उत्तमा
बुद्धभूमि नचिरेण लप्स्यसे ॥ १३६ ॥ बोधिसत्त्वचरि सागरोपमा
बुद्धज्ञानविधि आकाशसादृशम् । तत्प्रमाणप्रणिधानसागरा ___एष तानि भव तुष्टमानसः ॥ १३७ ॥ ईदृशो अपरिखिन्नइन्द्रिया ___ आशयदृढप्रयोगनिश्चिताः । ये भजन्ति इम मित्र ईदृशाः
ते भवन्ति नचिरेण नायकाः ॥ १३८ ।। दृष्ट्व सत्त्व विनयंगता बहु
बोधिसत्त्वचरि चित्र यावत । मा तु जातु विमति करिष्यसे
सर्वधर्ममुख बोधिचारिकम् ॥ १३९ ॥ पुण्यसंपद अचिन्तिया तव
अर्थधर्मगुणश्रद्धसंपदः । येन संपद इमा त्वमीडशी
बुद्धपुत्र इह अद्य पश्यसि ॥ १४० ॥ पश्य लाभ तव कीदृशो महान् __पश्यतो जिनसुता निरन्तरम् । दर्शयन्ति प्रणिधी खकखकां__स्त्वं च तानखिलतोऽनुगच्छसि ॥ १४१ ॥ दुर्लभा भवशतैरपीदृशा ___ बोधिसत्त्वचरितेषु भाजना । तेन चो जिनसुता निरन्तरं
ते विमोक्षनय दर्शयन्ति माम् ॥ १४२ ।। कल्पकोटिनयुतानि ते जना
संवसन्ति सुगतात्मजैः सह ।
20
25
30