________________
8467
५४ मैत्रेयः। अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रानुशासन्यभिष्यन्दितचित्तो येन समुद्रकच्छो जनपदस्तेनोपसंक्रान्तः तामेव बोधिसत्त्वचर्यानुशासनीमनुविचिन्तयन् , सम्यक्चर्यानिःसमर्थपूर्वान्तकोटीगतकायप्रणामसमन्वाहोरण कायबलं दृढीकुर्वाणः, पूर्वान्तकोटीगतकायचित्तपरि5 शुद्धिनिष्कारणसंसारिकचित्तप्रचारसमन्वाहारण चित्तमनसिकारं गृह्णन् , पूर्वान्तकोट्यसत्कर्मलौकिककार्यप्रयुक्तः निष्प्रयोजनपरिष्यन्दसमन्वाहारण प्रत्युत्पन्नप्रयोजनमहासामर्थ्यं विचिन्तयन्, पूर्वान्तभूतपरिकल्पसमुत्थितवितथसंकल्पसंदर्शितमनसिकारसमन्वाहारेण सर्वबोधिसत्त्वचर्यासम्यक्संकल्पाभिसंस्कारवलं समुत्थापयन् , अतीतात्मभावात्मार्थप्रयोगारम्भविषमतासमन्वाहारेण सर्वसत्त्वार्थारम्भवैशेषिकतया अध्याशयवलं दृढीकुर्वाणः, अतीतकायपर्येष्टिसमु10 दाचाराखादतासमन्वाहारेण सर्ववुद्धधर्माप्रतिलम्भप्रयोगमहाश्वासप्रतिलम्भेन इन्द्रियवेगान्
विवर्धयमानः, अतीताध्वविपर्याससंप्रयुक्तमिथ्यामययोगप्रयोगसमन्वाहारेण प्रत्युत्पन्नाध्वसम्यक्संदर्शनाविपर्याससंप्रयुक्तेन बोधिसत्त्वप्रणिधानेन संततिं परिशोधयन् , पूर्वान्तगतवीर्यारम्भकार्यापरिनिष्पन्नसमन्वाहारेण प्रत्युत्पन्नसर्ववुद्धधर्मसमुदागमप्रत्युपस्थानेन महावीर्यारम्भविक्रमेण
कायचित्तसंप्रग्रहं जनयन्, पूर्वान्तकोटीपञ्चगल्यपायनिक्षिप्तात्मभावनिरुपणाख्यनिरुपजीव्य15 समुच्छ्रायमपरान्तकोटीगतकल्पपरिग्रहप्रयुक्तस्य समन्वाहारेण सर्वबुद्धधर्मोत्थापकसर्वजगदुप
जीव्यसर्वकल्याणसमर्थात्मभावपरिग्रहेण विपुलप्रीतिप्रामोद्यवेगान् विवर्धयमानः, प्रत्युत्पन्नजन्माभिनिर्वृत्तं जराव्याधिमरणशोककरभूतं संयोगवियोगनिधानभूतं समुच्छ्रयमपरान्तकोटीगतकल्पवोधिसत्त्वचर्याचरणप्रयुक्तस्य सत्त्वपरिपाचनबुद्धधर्मपरिग्रहप्रयुक्तस्य तथागतदर्शनसर्व
क्षेत्रानुचरणसर्वधर्मभाणकोपस्थानसर्वतथागतशासनसंधारणप्रयुक्तस्यसर्वधर्मपर्येष्टिसहायभूतस्य 20 सर्वकल्याणमित्रदर्शनसर्वबुद्धधर्मसमुदानयनप्रयुक्तस्य बोधिसत्त्वप्रणिधानशरीरस्य हेतुप्रत्ययभूतमवलोक्य अचिन्त्यकुशलमूलेन्द्रियवेगान् विवर्धयमानः। एवंचित्तः एवंमनसिकारः एवंयोनिशःप्रयुक्तःसर्वबोधिसत्त्वग्रसादसमारोपितया श्रद्धया सर्वबोधिसत्त्वाशयसमारोपितेन प्रेम्णा सर्वबोधिसत्त्वाशयसमारोपितेन गौरवेण सर्वबोधिसत्त्वेन्द्रियप्रसादसमारोपितेन चित्रीकारण सर्वबोधिसत्त्वशाख्यधिमुक्तिसमुत्थितैरिन्द्रियप्रसादवेगैः सर्वबोधिसत्त्वगौरवनिर्यातेन चित्तप्रसा25 देन सर्वबोधिसत्त्वश्रद्धासमुत्थितैः कुशलमूलसंभारैः, सर्ववोधिसत्त्वाभिसंस्कारसमुत्थिताभिः पूजाविमात्रताभिः, सर्वबोधिसत्त्वसमैराश्रयैः कृताञ्जलिपुटैः सर्वजगच्छरीरसंभवाभिश्चक्षुर्विमात्रतावलोकनताभिः, सर्वजगत्संज्ञाजगत्समारोपिताभिः सर्वबोधिसत्त्वखराङ्गविशुद्धिसमुत्थितवर्णोदाहारव्यूहाभिनिहोरैः, पूर्वान्तप्रत्युत्पन्नकोटीगतसर्वबोधिसत्त्वाधिष्ठानपरिपूर्णेन तथागतविहारा
भिमुखीभावगतेन संज्ञागतेन सर्वत्रानुगतेन तथागतबोधिसत्त्वविकुर्वणासंबोधेन एकवालपथाS 488_30 व्यतिरिक्तैन सर्वबुद्धबोधिसत्त्वकायस्फरणानुगतेन सर्वबोधिसत्त्वचक्षुष्पथपरिशुद्धिसमारोपिता
भिज्ञाज्ञानालोकविज्ञप्तिभिः, सर्वदिग्जालसंभेदानुगतेन मनआयतनेन धर्मधातुतलभेदस्फरणेन प्रणिध्यमिनिरिबलेन आकाशधातुपरमपर्यवसानेन सर्वत्रानुगतेन त्र्यध्वासंभिन्नेन अप्रतिप्र