SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ -४३.११६] गण्ड. ४३ ४३ गोपा । वभूव तेषां चरमो जिनानां वुद्धस्तदानीमधिमुक्तितेजाः ॥ १०९ ॥ तस्मिन् विशुद्धं मम धर्मचक्षुधर्मस्वभावश्च मयाववुद्धः । अयोनिशोऽत्यन्तविकल्प शान्ता लब्धावभासास्म्यभवं ततोऽर्वाक् ॥ ११० ॥ समाधिभूमिं च विलोकयामि ततः प्रभृत्येव जिनौरसानाम् । क्षेत्रार्णवानेकमनःक्षणेन चिन्ताव्यतीतांच दिशामि दिक्षु ॥ १११ ॥ नानाविशुद्धानि च सर्वदिक्षु क्षेत्राणि पश्याम्यमिताद्भुतानि । दृष्ट्वा मनस्तेषु न सज्जते मे क्लिष्टेषु नैव प्रतिहन्यते च ॥ ११२ ॥ क्षेत्रेषु तेष्वेव च बोधिमण्डे पश्यामि बुद्धान् निखिलेष्वशेषान् । प्रभासमुद्रानमितांश्च तेषां एकेन चित्तेन विलोकयामि ॥ ११३ ॥ तथैव तेषां च पर्षत्समुद्रां श्चित्तक्षणेनावतराम्यसङ्गान् । तेषां समाधीनखिलानवैमि सर्वान् विमोक्षानपि चाप्रमेयान् ॥ ११४ ॥ चर्यां च तेषां विपुलां धरेमि भूमीनयांश्चावतराम्यशेषान् । प्रणिध्यसंख्येयमहासमुद्रान् प्रतिक्षणं चावतराम्यनन्तान् ॥ ११५ ॥ संप्रेक्षती सत्पुरुषस्य कार्य कल्पाननन्तांश्चरती च चर्याम् । एकैकम्नोऽस्य विकुर्वितानां नैवेह पर्यन्तमुपैमि जातु ॥ ११६ ॥ ३३७ 5 10 15 20 25 30
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy