________________
३३२ गण्डव्यूहसूत्रम् ।
[४३.८९अभूवन् , यान्यस्माभिरारागितानि सत्कृतानि गुरुकृतानि मानितानि पूजितानि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ।।
तेषां खलु कुलपुत्र षष्टेवुद्धकोटीनियुतशतसहस्राणां सर्वपश्चिमो विपुलधर्माधिमुक्तिसंभवतेजो नाम तथागत उत्पन्नोऽभूत् । तस्य भगवतो नगरे प्रविष्टस्य मया राजभार्याभूतया 5 साधं खामिना सर्वाकारपूजामुखं प्रयुक्तया तथागतपूजया पूजां कृत्वा सर्वतथागतोत्पत्तिसंभवप्रदीपो नाम तथागतधर्मपर्यायस्तस्य भगवतोऽन्तिकात् श्रुतः, यस्य सहश्रवणान्मया ज्ञानचक्षुः प्रतिलब्धम् । एष च सर्वबोधिसत्त्वसमाधिनयसागरव्यवलोकनविषयो बोधिसत्त्वविमोक्षः प्रतिलब्धः ॥
सा खल्वहं कुलपुत्र एतं विमोक्षं भावयमाना बुद्धक्षेत्रशतपरमाणुरजःसमान् 10 कल्पानागतान् बोधिसत्त्वेन सार्धं वोधिसत्त्वचर्यां चरमाणा । तेषु च मे बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु अनन्तमध्यास्तथागता आरागिताः । कचित् कल्पे कल्पस्थोऽपि एकतथागत आरागितः । कचित् कल्पे द्वौ तथागतावारागितौ । कचित् कल्पे यावदनभिलाप्यास्तथागता आरागिताः । कचित् कल्पे बुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिताः। न च मे जातु बोधिसत्त्वस्य कायो ज्ञातः-किंप्रमाणः कीडक्संस्थानः कीदृग्वर्णः। न कायकर्म 15 ज्ञातं न वाकर्म न मनस्कर्म ज्ञातं न ज्ञानदर्शनं न ज्ञानगोचरं न ज्ञानसमाधिविषयो ज्ञातः । ये खलु पुनः कुलपुत्र सत्त्वा वोधिसत्त्वं बोधिसत्त्वचारिकां चरन्तं दृष्ट्वा वोधिसत्त्वस्यान्तिकेऽनुनयचित्तमुत्पादयामासुः, नानासंकेतैर्नानासंवासैश्च प्रसादं जनयामासुः, सर्वे ते बोधिसत्त्वेन लौकिकलोकोत्तरैर्विविधैरुपायैः संगृहीता बोधिसत्त्वस्य परिवारा भवन्ति स्म । ते बोधिसत्त्वस्य बोधिसत्त्वचर्यां चरतः परिवारसंवासे न अवैवर्तिका भवन्ति स्म 20 अनुत्तरायां सम्यक्संबोधौ ॥
8424
साहं कुलपुत्र विपुलधर्माधिमुक्तिसंभवतेजस्तथागतस्य सहदर्शनादिमं सर्वबोधिसत्त्वसमाधिसागरव्यवलोकनविषयं बोधिसत्त्वविमोक्षं प्रतिलभ्य बोधिसत्त्वेन सार्ध बुद्धक्षेत्रशतपरमाणुरजःसमान् कल्पानागता एतं विमोक्षं संभावयमाना। ये च तेषु बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु तथागता उत्पन्नाः, सर्वे ते मया तथागता आरागिताः पूजिता उपस्थिताः । 26 सर्वेषां च मे तेषां तथागतानां धर्मदेशना श्रुता, श्रुत्वा उद्गृहीता संधारिता । सर्वेषां च मया तेषां
बुद्धानां भगवतामन्तिकादेष विमोक्षः प्रतिलब्धो नानानयैर्वा नानासूत्रान्तनयनिर्घोषैर्नानाविमोक्षशरीरैर्नानाविमोक्षद्वारैर्नानाविमोक्षविचारैर्नानाध्वजप्रवेशैः नानाबुद्धक्षेत्रसागरावतारैः नानाबुद्धदर्शनसमुद्रविज्ञप्तिभिः नानातथागतपर्षन्मण्डलावतारैः नानाबोधिसत्त्वप्रणिधानसागर
नयपथैः नानाबोधिसत्त्वचर्याप्रसरैः नानाबोधिसत्त्वचर्याभिनिहोरैः नानाबोधिसत्त्वप्रसरैः।न च 30 बोधिसत्त्वस्य समन्तभद्रविमोक्षनयमवतरामि । तत्कस्य हेतोः? आकाशतलप्रवेशाप्रमाणा हि · कुलपुत्र समन्तभद्राणां बोधिसत्त्वानां विमोक्षनयाः सर्वसत्त्वसंज्ञागततलाप्रमाणाः त्र्यध्व
B169