________________
8371
गण्डव्यूहसूत्रम् ।
[ ४२.०
सर्वविज्ञप्तिपथांश्च भावनया अनुगच्छति । इदं कुलपुत्र बोधिसत्त्वानां समन्तज्ञानमुखव्यवचारणपरिनिष्पत्तिसंभवगर्भं नामाष्टमं बोधिसत्त्वजन्म ||
२८८
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां धर्मधातुनिर्माणव्यूहगर्भं नाम वोधिसत्त्वजन्म ? इह कुलपुत्र बोधिसत्त्वः सर्वत्र चित्तक्षणे नानाव्यूहानि बुद्धक्षेत्राणि अधितिष्ठति । सत्त्व5 निर्माणे वैशारद्यपरमपारमिताप्राप्तश्च भवति । बुद्धनिर्माणकौशल्य प्राप्तश्च भवति । धर्मनिर्माणवैशारद्यविशुद्धश्च भवति । असङ्गवरधर्मधातुगोचरश्च भवति । यथाशयसर्वकायविज्ञप्त्यधिष्ठानकुशलश्च भवति । अचिन्त्य सत्त्वविनयकौशल्यगतश्च भवति । नानाचर्याभिसंबोधिसंदर्शकश्च भवति । अनावरणसर्वज्ञतामार्गाभिनिर्हारकुशलश्च भवति । तदनन्तरं धर्मचक्रप्रवर्तनकौशल्यं संदर्शयति । अनन्तमध्यसत्त्वविनयोपायाभिनिर्हारकुशलश्च भवति । 10 कालप्राप्ते सत्त्वविनये सदासमाहितश्च भवति वैरोचनज्ञानगर्भकोशः । इदं कुलपुत्र बोधिसत्त्वानां धर्मधातुनिर्माणव्यूहगर्भ नाम नवमं वोधिसत्त्वजन्म ॥
1
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म ? इह कुलपुत्र बोधिसत्त्वो विविक्तो भवति सर्वत्र्यध्वतथागतैकी भावविषये । सर्वलोकधात्वानन्तर्यविषयं चावतरति । सर्वसत्त्वानां पूर्वान्तापरान्तच्युत्युपपत्तिषु चित्तानन्तर्योत्पादं 15 जानाति । सर्वबोधिसत्त्वानां चर्याज्ञानानन्तर्यविषयं प्रजानाति । अतीतानागतप्रत्युत्पन्नानां च सर्वबुद्धानामभिसंबोधानन्तर्यं प्रजानाति । सर्वधर्माणां चोपकारकौशल्यानन्तर्यं प्रजानाति । सर्वकल्पसंवर्तविवर्तकल्पानां च पूर्वान्तापरान्तप्रत्युत्पन्नानां सनाम्नां सोपदेशानामानन्तर्यं प्रजानाति । यथापरिपाचितेषु च सत्त्वेषु यथाकालप्राप्तेषु अभिसंबोधिव्यूहविबुद्ध्यनविषयसंदर्शनाधिष्ठानज्ञानमभिनिर्हरति । सर्वबुद्धोत्पादेषु चाभिसंबोध्युपनयनधर्मचक्र20 प्रवर्तनकौशल्यनयानन्तर्यंतां संदर्शयति अनन्तसत्त्वधातुविनयोपायाभिनिर्हारकौशल्येन । इदं कुलपुत्र बोधिसत्त्वानां तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म ||
इमानि कुलपुत्र बोधिसत्त्वानां दश बोधिसत्त्वजन्मानि येषु बोधिसत्त्वा जायन्ते उपपद्यन्ते समर्जयन्ति संवर्धयन्ति प्रतिपूरयन्ति संभवन्ति परिसंभवन्ति परिनिष्पद्यन्ते । सर्वक्षेत्रनिरवशेषानुबोधायैकव्यूहालंकारसमुदाचारानधितिष्ठन्ति । सत्त्वधातुनयाप्रतिप्रस्रम्भ25 णाय अपरान्तकोटीगतकल्पाधिष्ठानानधितिष्ठन्ते । सर्वधर्मसमुद्रनानारम्बणाने कविचित्रनानापरंपरानिर्देशानन्तधर्मपरंपरास्रोतोऽभिसंबुध्यन्ते । अचिन्त्यां बुद्धवृषभितां धर्मधातुपरमाकाशधातुपर्यवसानां संदर्शयन्ति । अप्रमेयसत्त्वत्चर्यानानात्वसमुद्रेषु परिपाकविनयसंगृहीतेषु धर्मचक्रप्रवर्तनं संदर्शयन्ति । सर्वलोकधातून् बुद्धोत्पादाविरहितानधितिष्ठन्ति । सर्वधर्म - मेघाननभिलाप्यखराङ्गसमुद्रविशुद्धिं सर्वारम्बणेषु प्रवर्तमानां विज्ञपयन्ति । अप्रमेयविहारिताया30 मनावरणगतिं गताः सर्वधर्मरुचिरव्यूहानि बोधिसत्त्वमण्डलानि प्रभावयन्ति । यथाशयाधि
1S अभिषिको.