________________
B147
२८६ गण्डव्यूहसूत्रम् ।
[४२.०पुण्यं समार्जयन् अतृप्तः सर्वतथागतपूजासंभारसमुदानयनप्रयुक्तोऽप्रतिप्रस्रब्धप्रयोगो भवति । इदं कुलपुत्र बोधिसत्त्वानां सर्वबुद्धपूजोपस्थानप्रणिधिप्रयोगगर्भ नाम प्रथमं बोधिसत्त्वजन्म सर्वज्ञतासंभारकुशलमूलसंभवसमार्जनतायै संवर्तते ॥
तत्र कुलपुत्र कतमद्वोधिचित्ताङ्गपरिनिष्पत्तिसंभवग नाम द्वितीयं बोधिसत्त्वजन्म ? 5 इह कुलपुत्र बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति । यदुत महाकरुणाचित्तं
सर्वसत्त्वपरित्राणाय । सर्ववुद्धारागणचित्तमत्यन्ताभिराधनतायै । सर्वबुद्धधर्मपर्येष्टिचित्तं सर्ववस्त्वनपेक्षतायै। महाप्रस्थानचित्तं सर्वज्ञताभिमुखतायै । महामैत्रीचित्तं सर्वजगत्संग्रहप्रयोगस्फरणतायै । सर्वजगदपरित्यागचित्तं सर्वज्ञतासंनाहदृढतायै । अशाठ्यामायाचित्तं यथा
भूतज्ञानावभासप्रतिलाभतायै । यथावादीतथाकारिचित्तं वोधिसत्त्वमार्गप्रतिपद्यनतायै । सर्व10 वुद्धाविसंवादनचित्तं सर्वतथागतप्रणिध्यनुपालनतायै । सर्वज्ञतामहाप्रणिधानचित्तमपरान्त
कोटीगतसर्वसत्त्वपरिपाकविनयाप्रतिप्रस्तब्धये । एतत्प्रमुखैर्बुद्धक्षेत्रपरमाणुरजःसमैर्बोधिचित्ताङ्गसंभारैरभिनिष्पन्नः स बोधिसत्त्वो जातो भवति तथागतकुले । इदं कुलपुत्र बोधिचित्ताङ्गपरिनिष्पत्तिसंभवग नाम द्वितीयं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमबोधिसत्त्वानां धर्मनयनिध्यप्तिप्रयोगनेत्र्यभिमुखसंभवगर्भ नाम 15 तृतीयं बोधिसत्त्वजन्म ? इह कुलपुत्र बोधिसत्त्वः सर्वधर्मनयसंभवनिध्यप्तिमुखचेताः सर्वज्ञतामार्गाकारप्रतिपूर्यभिमुखपरिणतचेताः अनवद्यकर्मसमुदाचारसंकल्पचेताः सर्वबोधिसत्त्वसमाधिनयसागरपरिशुद्ध्यभिमुखचेताः सर्वबोधिसत्त्वगुणप्रतिपत्तिपरिनिष्पन्नचेताः सर्वबोधिसत्त्वमार्गाङ्गव्यूहामिनिर्हारचेता विपुलसर्वज्ञतारम्बणसंभवकल्पोद्दाहज्वलनकल्पाप्रतिप्रनब्ध
वीर्यचेताः सर्वजगत्परिपाकविनयप्रस्थानानन्तमध्यबोधिसत्त्वचर्याभिनिर्हारचेताः सर्वाचार20 शिक्षासुप्रतिपन्नबोधिसत्त्वगुणपरिनिष्पत्तिषु सर्वभावविभावनयानुभावनयप्रविष्टचेता भवति । इदं कुलपुत्र धर्मनयनिध्यप्तियोगनेत्र्यभिमुखसंभवगर्भ नाम तृतीयं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां त्र्यध्वलोकाध्याशयविशुद्धिगर्भ नाम चतुर्थ बोधिसत्त्वजन्म ? इह कुलपुत्र बोधिसत्त्वः परिशुद्धो भवत्यध्याशयधातौ । अवभासप्राप्तो भवति
बुद्धबोधौ । अवतीर्णो भवति बोधिसत्त्वनयसमुद्रेषु । सारो भवति दृढाध्याशयवज्रधातु25 संगृहीतचेताः । विमुखीभवति सर्वभवगत्युपपत्तिषु । अभिमुखीभवति सर्वतथागतविकुर्वितपरिनिष्पत्तिषु । विशेषगामिनीप्राप्तो भवति बोधिसत्त्वतीक्ष्णेन्द्रियताविवर्धनतायै । कल्याणचित्तो भवत्यध्याशयप्रभाखरतायै । अचलो भवति दृढमहाप्रणिधानविवर्धनतायै । सर्वतथागतसमन्वाहतो भवति सर्वावरणपर्वतविकिरणतायै । प्रतिशरणभूतो भवति सर्वजग
दुपजीव्यः । इदं कुलपुत्र बोधिसत्त्वानां त्र्यध्वलोकाध्याशयविशुद्धिगर्भ नाम चतुर्थ 30 बोधिसत्त्वजन्म ॥
8368
१B सागरो.