SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 8199 १५२ गण्डन्यूहसूत्रम् । [२७.०तथा तथा धर्म देशयमानामपश्यत् , यत्सर्वे नियता भवन्त्यनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? यथापि तत्सिंहविजृम्भिताया भिक्षुण्याः समन्तचक्षुरुपेक्षावतीप्रमुखानि सर्वबुद्धधर्मनिर्देशप्रमुखानि धर्मधातुतलप्रभेदप्रमुखानि सर्वावरणमण्डलविकिरणप्रमुखानि सर्वजगत्कुशलचित्तसंभवप्रसुखानि विशेपवतिव्यूहप्रमुखानि असङ्गनयगर्भप्रमुखानि धर्मधातु5 मण्डलप्रमुखानि चित्तकोशप्रमुखानि समन्तरुचिताभिनिर्हारगर्भप्रमुखानि दशप्रज्ञापारमितामुखासंख्येयशतसहस्राण्यवक्रान्तानि । ये च तत्सूर्यप्रभ महोद्यानं बोधिसत्त्वास्तदन्ये वा सत्त्वाः प्रविशन्ति सिंहविजृम्भिताया भिक्षुण्या दर्शनाय धर्मश्रवणाय, सर्वे ते सिंहविजृम्भिताया भिक्षुण्याः प्रथमं कुशलमूलधर्मसमुदानेषु नियोजिता यावदनुत्तरायाः सम्यक्संबोधेरविवाः कृताः ।। अथ खलु सुधनः श्रेष्ठिदारकः सिंहविजम्भिताया भिक्षुण्या इमामेवंरूपामुद्यानसंपदं विहारसंपदं चंक्रमसंपदं परिभोगसंपदं शय्यासनसंपदं पर्षन्मण्डलसंपदमाधिपतेयसंपदमृद्धिविकुर्वितसंपदं सरस्वतीव्यूहसंपदं दृष्ट्वा अचिन्त्यं च धर्मनयं श्रुत्वा विपुलधर्ममेघाभिध्यन्दितचित्तः सिंहविजृम्भिताया भिक्षुण्या अभिमुखमाशयविशुद्धिसंपदं संप्रणीतोऽनेक शतसहस्रकृत्वः प्रदक्षिणीकरिष्यामीति । अथ सिंहविजृम्भिताया भिक्षुण्याः सर्वं तन्महोद्यानं 15 सपर्षन्मण्डलव्यूहमुदारेणावभासेन स्फुटमवभासितम् । अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्वा एवं संजानाति-प्रदक्षिणीकुर्वश्च समन्तादभिमुखं सिंहविजृम्भितां भिक्षुणीमद्राक्षीत् । स पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्ये, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनी ददातीति । तद्वदतु मे 20 आर्या-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ __सा अवोचत्-अहं कुलपुत्र सर्वमन्यनासमुद्धातितस्य बोधिसत्त्वविमोक्षस्य लामिनी । आह-क एतस्य आर्ये सर्वमन्यनासमुद्धातितस्य बोधिसत्त्वविमोक्षस्य विषयः? आह-एष कुलपुत्र त्र्यध्वगतब्यूहकचित्तक्षणकोटिविज्ञप्तिस्त्रभावो ज्ञानालोकः । आह-क एतस्य आर्ये ज्ञानालोकस्य विषयः ? आह-एतन्मम कुलपुत्र ज्ञानालोकमुखमायूहत्या नियूहत्याः सर्वधर्मो25 पपन्नो नाम समाधिराजायते, यस्य समाधेः सहप्रतिलाभेन मनोमयैः कायैः सर्वासु दशसु दिक्षु सर्वलोकधातुष्वेकजातिप्रतिवद्धानां तुषितभवनगतानां सर्वबोधिसत्त्वानामेकैकस्य बोधिसत्त्वस्य अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैरात्मभावैरनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाभिः पूजाविमात्राभिः पूजाप्रयोगायोपसंक्रमामि, यदुत देवेन्द्रकायै गयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्येन्द्रकायैः पुष्पमेघपरिगृहीतैर्गन्धमेघपरिगृहीतै पमेघपरिगृहीतैर्माल्य30 मेघपरिगृहीतैर्विलेपनमेघपरिगृहीतैश्चूर्णमेघपरिगृहीतैर्वस्त्रमेधपरिगृहीतैश्छत्रमेघपरिगृहीतैर्ध्वज मेघपरिगृहीतैः पताकामेघपरिगृहीतै रत्नाभरणमेघपरिगृहीतै रत्नजालव्यूहमेघपरिगृहीतै रत्नवितानव्यूहमेघपरिगृहीतै रत्नप्रदीपव्यूहमेघपरिगृहीतै रत्नासनव्यूहमेघपरिगृहीतैः पूजाप्रयोगाय S200
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy