________________
8196
गण्डव्यूहसूत्रम्।
[२७.०स कचिदासनपरिवारे महेश्वरदेवपुत्रप्रसुखानां शुद्धावासकायिकानां देवपुत्राणां संनिपण्णानां सिंहविजृम्भितां भिक्षुणीमक्षयविमोक्षसंभेदं नाम धर्ममुखं प्रकाशयमानामपश्यत् । कचिदासनपरिवार रुचिरब्रह्मप्रनुखानां ब्रह्मकायिकानां देवपुत्राणां संनिपण्णानां सिंहविजम्भितां भिक्षुणी समन्ततलभेदं नाम स्वरमण्डलविशुद्धि संप्रकाशयमानामपश्यत् । केचिदासनपरिवारे 5 वशवर्तिदेवराजप्रमुखानां परनिर्मितवशवर्तिदेवराजप्रमुखानां परनिर्मितवशवर्तिनां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणी बोधिसत्त्वाशयविशुद्धिवशिताव्यूह नाम धर्मनुखं संप्रकाशयमानामपश्यत् । कचिदासनपरिवारे सैनिर्मितदेवराजप्रमुखानां निर्माणरतीनां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणी
संर्वधर्मशुभव्यूह नाम धर्ममुखं संप्रकाशयमानामपझ्यत् । कचिदासनपरिवारे संतुषित10 देवराजप्रमुखानां तुपितकायिकानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंह विजृम्भितां भिक्षुणी स्वचित्तकोशावत नाम धर्ममुखं संप्रकाशयमानामपश्यत् । कचिदासनपरिबारे सुयामदेवराजप्रमुखानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजम्भितां भिक्षुणीमनन्तव्यूह नाम धर्ममुखं संग्रकाशयमानामपश्यत् । कचिदासन
परिवारे शऋदेवराजप्रमुखानां त्रायन्त्रिंशकायिकानां देवपुत्राणां सदेवकन्यापरिवाराणां 15 संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमुद्वेगमुखं नाम धर्ममुखं संप्रकाशयमानामपश्यत् ।
कचिदासनपरिवार सागरनागराजप्रमुखानां शतरश्मिनन्दोपनन्दमनस्यैरावतानवतप्तप्रमृतीनां नागराज्ञां सनागकन्यानां नागकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणी बुद्धविषयप्रभाव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे वैश्रवणमहा
राजप्रमुखानां यक्षेन्द्राणां सयक्षकन्यायक्षकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां 20 भिक्षुणी जगत्परित्राणकोशं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । कचिदासनपरिवार
धृतराष्ट्रगन्धर्वराजप्रमुखानां गन्धर्वाणां सगन्धर्वकन्यागन्धर्वकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमक्षयमहर्षणं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । कचिदासनपरिवारे राहसुरेन्द्रप्रमुखानामसुरेन्द्राणां सासुरकन्यासुरकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणी धर्मधातुज्ञाननयवेगव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचि25 दासनपरिवारे महावेगधारिगरुडेन्द्रप्रमुखानां गरुडेन्द्राणां सगरुडकन्यागरुडकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणी भवसागरसंत्रासविषयं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे द्रुमकिन्नरराजप्रमुखानां किन्नरेन्द्राणां सकिन्नरकन्याकिन्नरकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणी बुद्धचर्यावभासं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे मृकुटीमुखमहोरगेन्द्रप्रमुखानां महोरगे30 न्द्राणां समहोरगकन्यामहोरगकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणी बुद्ध
प्रीतिसंभवं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । कचिदासनपरिवारेऽनेकेषां स्त्रीपुरुषदारक
8197
Som. क्वचि...मपश्यत्.
. B वशवर्ति'.