________________
S 188
मण्डव्यूहसूत्रम् ।
[२५.०
धर्मसागरज्ञानालोकं चैषामुपसंहरिष्यामि । सर्वबुद्धसागरं चैषामभिमुखमावर्तयिष्यामि । सर्वज्ञतासागरे चैनानवतारयिष्यामि ॥
एवं चिन्ताननसिकारप्रयुक्तोऽहं कुलपुत्र इह सागरतीरकूटागारनगरे प्रविचरामि । एवं जगद्धितसुखप्रयुक्तोऽहं कुलपुत्र सर्वमहासागररत्नद्वीपान् प्रजानामि । सर्वरत्नाकरान् 5 सर्वरनगोत्राणि सर्वरत्नमूलं प्रजानामि । सर्वनागभवनानि सर्वनागसंक्षोभान् सर्वयक्ष भवनानि सर्वयक्षसंक्षोभान् सर्वराक्षसभवनानि सर्वराक्षसभयप्रशमनानि सर्वभूतभवनानि सर्वभूतान्तरायव्युपशमनानि प्रजानामि । सर्वावन्तं संभवावर्त परिवर्जनं महोर्मिंवेशपरिहारमुदकवर्णविमात्रतां प्रजानानि । चन्द्रादित्यज्योतिर्ब्रहगणपरिवर्तनं रात्रिंदिवक्षणलवमुहूर्तं प्रजानामि । गमनागमनविशेषतां क्षेमाक्षेमतां यानपात्रयत्रक्रियादृढतां यानपरिहारं यानवाहनं मारुत10 संग्रहणं मारुतोत्पादनं यानावर्तनं यानपरिवर्तनं यानसंस्थापनं यानसंप्रेषणं प्रजानामि । सोऽहं कुलपुत्र एवंज्ञानसमन्वागतः सततं सत्त्वार्थकार्यप्रयुक्तो वणिग्गणं दृढेन यानेन क्षेमेण शिवेनाभयेन यथाप्रहर्षं प्रमोदयन् धार्म्या कथया यथाभिप्रायेण रत्नद्वीपमुपनयामि । सर्वरत्नसमृद्धिं चैषां कृत्वा पुनर्जम्बूद्वीपमुपनयामि । न च मम कुलपुत्र कदाचित् किंचिद् यानपात्रं विपन्नपूर्वम् । येषां च सत्त्वानामहं कुलपुत्र चक्षुषामाभासमागच्छामि, ये च 15 सत्त्वा मम धर्मदेशनां शृण्वन्ति तेषां सर्वसंसारसागरसंसीदनभयानि विगच्छन्ति, सर्व - ज्ञतासागरावतारज्ञानं चामुखीभवति । तृष्णासागरोच्छोषणतायै च प्रतिपद्यन्ते, त्र्यध्वसागरज्ञानालोकं च प्रतिलभन्ते । सर्वसत्त्वदुःखसागरक्षयाय चाभ्युत्सहन्ते । सर्वसत्त्वचित्तसागरकालुष्यप्रसादनतायै च प्रयुज्यन्ते । सर्वक्षेत्रसागरविशुद्धये वीर्यमारभन्ते । सर्वदिक्सागरस्फरणतायै च न विनिवर्तन्ते । सर्वजगदिन्द्रियसागरसंभेदं च प्रतिविध्यन्ति 20 सर्वसवचर्या सागरं चानुवर्तन्ते । यथाशयजगत्सागरप्रतिभासप्राप्ताश्च भवन्ति ॥
8189
१४४
एतस्य अहं कुलपुत्र महाकरुणाध्वजस्य अमोघदर्शनश्रवणं संवासानुस्मृतिर्नाम नदीनिर्घोषस्य बोधिसत्त्वविमोक्षस्य लाभी । किं मया शक्यं बोधिसत्त्वानां सर्वसंसारसागरविचारिणां सर्वक्लेशसागर। नुपलिप्तानां सर्वदृष्टिगतसागरसंग्रह ग्राहभयविगतानां सर्वधर्मसागर - स्वभावजलविचारिणां सर्वजगत्सागरस्वभावतलविचारिणां सर्वजगत्सागरसंग्रहवस्तुसंग्रहण25 जालानां सर्वज्ञतासागरसंवासिनां सर्वसत्त्वाभिनिवेशसागरनिर्मथनानां सर्वकालसागरसंभिन्नविहारिणां सर्वजगत्सागरपरिपाकतत्त्वाभिज्ञानां सर्वजगत्सागरविनयकालानतिक्रान्तानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे नन्दिहारं नाम नगरम् । तत्र जयोत्तमो नाम श्रेष्ठी प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षि30 तव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खल्ल सुघनः श्रेष्ठिदारको वैरस्य दाशस्य पादौ शिरसाभिवन्द्य वैरं दाशमनेकB 77 शतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अश्रुमुखो रुदन् कल्याणमित्रदर्शनाभिवितृप्तो वैरस्य दाशस्यान्तिकात्प्रक्रान्तः ॥ २३ ॥
DET ER ET AL