SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 8153 २४ उत्पलभूतिः। अथ खलु सुधनः श्रेष्टिदारकोऽनपेक्षः काये जीविते च, अनपेक्षः सर्वभवभोगपरिग्रहोपादानाभिनिवेशनापत्तिषु, अनपेक्षः सर्वसत्त्वदेशरतिषु, अनपेक्षः सर्वरूपशब्दगन्धरसस्प्रष्टव्येषु, अनपेक्षः सर्वपरिवारोपभोगपरिभोगेषु, अनपेक्षः सर्वराज्यैश्वर्याधिपत्यसुखेषु, । सापेक्षः सर्वसत्त्वपरिपाचनविनयपरिशुद्धिषु अनुत्तरबुद्धक्षेत्रपरिशुद्धयभिनिर्हरणतया, सापेक्षः सबैतथागतपूजोपस्थानपरिचर्यावितृप्ततया, सापेक्षः सर्वधर्मेषु स्वभावपरिज्ञानानुगमाय, सापेक्षः सर्वबोधिसत्त्वगुणेषु सर्वगुणसागरेषु प्रतिपत्त्यच्यवनतायै, सापेक्षः सर्वबोधिसत्त्वमहाप्रणिधानेषु सर्वकल्पानवशेषबोधिसत्त्वच संवासनतायै, सापेक्षः सर्वतथागतपर्षन्मण्डलसमुद्रा वतारेषु, सापेक्षः सर्वबोधिसत्त्वसमाधिमुखेषु एकैकसमाधिमुखसर्वबोधिसत्त्वसमाध्यसंख्येया10 वतरणविकुर्वणतायै, सापेक्षः सर्वधर्मज्ञानालोकचक्रेषु सर्वतथागतधर्मचक्रसंप्रतीच्छनातृप्त तायै सर्वकल्याणमित्राकरान् सर्वकल्याणमित्रसंभवने, तांश्च अन्यांश्च सर्वबोधिसत्त्वगुणान् संपश्यन् अनुपूर्वेण येन पृथुराष्ट्रं जनपदस्तेनोपसंक्रम्य उत्पलभूतिं गान्धिकश्रेष्ठिनं परिमार्गन् परिगवेषमाणोऽद्राक्षीत् । दृष्ट्वा च पुनर्येनोत्पलभूतिर्गान्धिकश्रेष्टी तेनोपजगाम । उपत्य उत्पलभूतेर्गान्धिकश्रेष्टिनः पादौ शिरसाभिवन्द्य उत्पलभूतिं गान्धिकश्रेष्ठिनमनेकशतसहस्रकृत्वः 15 प्रदक्षिणीकृत्य उत्पलभूतेर्गान्धिकश्रेष्ठिनः पुरतः प्राञ्जलिः स्थित्वा एवमाह-अहमार्य अनुत्तरायां सम्यक्संवोधौ संप्रस्थितः सर्वबुद्धसमज्ञानमाकाङ्क्षमाणः सर्वबुद्धपूर्णप्रणिधानमण्डलं परिपूरयितुकामः सर्ववुद्धरूपकायं द्रष्टुकामः सर्वबुद्धधर्मकायं परिनिष्पादयितुकामः सर्वबुद्धधर्मज्ञानकायं परिज्ञातुकामः सर्वबोधिसत्त्वचर्यामण्डलं परिशोधयितुकामः सर्वबोधिसत्त्वसमाधिमण्डलमवभासयितुकामः सर्वबोधिसत्त्वधारणीमण्डलं संस्थापयितुकामः सर्वावरण20 मण्डलं विकरितुकामः सर्वक्षेत्रमण्डलमनुविचरितुकामः । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । कथं प्रतिपद्यमानो बोधिसत्त्वो नियति सर्वज्ञतायाम् ? आह-साधु साधु कुलपुत्र, येन तेऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । अहं कुलपुत्र सर्वगन्धान् प्रजानामि । सर्वगन्धयोगान् सर्वधूपान् सर्वधूपयोगान् प्रजानामि । सर्वानुलेपनानि सर्वानुलेपनयोगान् सर्वचूर्णान् सर्वचूर्णयोगान् सर्वगन्धानु25 लेपनचूर्णाकरान् प्रजानामि । देवगन्धानपि प्रजानामि । नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यगन्धानपि प्रजानामि । विविधानपि गन्धान् प्रजानामि । व्याधिप्रशमनगन्धानपि, दौर्मनस्यापहारगन्धानपि, लौकिकप्रीतिसंजननगन्धानपि, क्लेशोज्ज्वालनगन्धानपि, क्लेशप्रशमनगन्धानपि, विविधसंस्कृतरतिसुखसंजननगन्धानपि, सर्वसंस्कृतोद्वेगसंजनन गन्धानपि, मदप्रमादापहारगन्धानपि, बुद्धमनसिकारसमुदाचारसंभवगन्धानपि, धर्मनया184_80 नुगमगन्धानपि, आर्योपभोग्यगन्धानपि, सर्वबोधिसत्त्वगन्धविमात्रतामपि, सर्वबोधिसत्त्वभूमि Som. सर्घसंस्कृत...गन्धानपि.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy