SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ S 181 १३. मण्डन्यूहसूत्रम्। [२३.०शिल्पज्ञानभेदवतीधारण्यालोकेन । केषांचित् सत्वानां चतुःसंग्रहवस्तुप्रयोगेण अर्थ करोमि यदुत सर्वज्ञज्ञानोपनयनाय । केषांचित् सत्त्वानां पारमितासंवर्णनतया अर्थं करोमि यदुत सर्वज्ञतापरिणामज्ञाननयालोकसंजननतया । केपांचित् सत्त्वानां बोधिचित्तसंवर्णनतया अर्थ करोमि यदुत बोधिवीजाविप्रणाशोपस्तम्भसंजननतया । केषांचित् सत्त्वानां सर्वाकारबोधि5 सत्त्वचयासंवर्णनतया अर्थ करोमि यदुत सर्वबुद्धक्षेत्रपरिशोधनसर्वसत्त्वपरिपाकप्रणिधिसंजननतायै । केपांचित् सत्त्वानामुद्वगसंजननतया अर्थं करोमि यदुत दुश्चरितविपाकनिष्यन्दनरकगतिदुःखवेदनानुभवसंदर्शनतया । केपांचित् सत्त्वानां महाप्रीतिसंजननतया अर्थ करोमि यदुत सर्वतथागतावरोपितदक्षिणानियतसर्वज्ञताफलपर्यवसानेऽभ्युदीरणतया । केषांचित् सत्वानां सर्वतथागतगुणवर्णसंप्रकाशनतया अर्थ करोमि यदुत वुद्धगुणशरीराभिलाष10 सर्वज्ञताप्रणिधिसंजननतायै । केषांचित् सत्त्वानां बुद्धमाहात्म्यसूचनया अर्थं करोमि यदुत अविवानाभोगाप्रतिप्रस्रब्धबुद्धकार्यानुष्ठानसक्तबुद्धकायप्रतिलम्भाभिलाषसंजननतायै। केषांचित् सत्त्वानां वुद्धाधिपतेयतासंदर्शनतया अर्थं करोमि यदुत अनभिभूतबुद्धात्मभाव संपत्प्रतिलाभाभिलाषसंजननतायै ॥ . अपि तु खलु पुनरहं कुलपुत्र, इह नगरे तोसले सर्वरथ्यासु सर्वचत्वरेषु 15 सर्वशृङ्गाटकेषु सर्ववीथीमुखेषु सर्वगृहेषु सर्वश्रेणिषु सर्वकुलेषु सर्वकुलपरिवर्तेषु यथासंनिपतितानां स्त्रीपुरुषदारकदारिकाणां यथाशयानां यथाप्रयोगाणां यथाधिपतेयानां यथाव्यवचाराणां तत्सभागानि आत्मभावारोहपरिणाहसंस्थानानि अभिनि त्य धर्म देशयामि । न च ते सत्त्वा अवबुध्यन्ते केनेदं देशितम् , कुतो वायमिति । अन्यत्र श्रुत्वा तथत्वाय प्रतिपद्यन्ते । येऽपीमे कुलपुत्र जम्बुद्वीपे षण्णवतियो पाषण्डा विविधदृष्टिगताभिनिविष्टाः, तत्राप्यह 20 सर्वत्रानुगच्छामि विविधदृष्टिगतसतानां सत्त्वानां परिपाचनतायै । यया च कुलपुत्र अहमिह तोसले नगरे सत्त्वानामर्थं करोमि, एवं जम्बुद्वीपे सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु सत्त्वानामर्थं करोमि । यथा जम्बुद्वीपे, तथा सर्वत्र चातुपके लोकधातौ, एवं साहने द्विसाहने त्रिसाहने महासाहले लोकधातौ, एवं दशसु दिक्षु, अपरिमाणेषु लोकधातुषु, सर्वसत्त्वपथेषु सर्वसत्त्वप्रतिष्ठानेषु सर्वसत्त्वनिकेतेषु सर्वसत्त्वनिलयसंज्ञागतेषु 25 सर्वसत्त्वपरिवर्तेषु सर्वसत्त्वसमवसरणेषु सर्वसत्त्वसमुद्रेषु सर्वसत्त्ववंशेषु सर्वसत्त्वदिक्षु सर्वसत्त्वविदिक्षु सर्वसत्त्वविधिषु यथाशयाधिमुक्तानां सत्त्वानामर्थं करोमि । विविधैरुपायैविविधैर्नयैर्विविधैारैर्विविधाभियुक्तिभिर्विविधैः संप्रयोगैः विविधैरुपायनयैर्विविधाभिः क्रियाभिविविधरूपवर्णसंदर्शनसंप्रसादनतया विविधवाक्पथोदीरणतया सत्त्वानामर्थं करोमि । एतामहं कुलपुत्र सर्वगामिनी सर्वत्रानुगतां बोधिसत्त्वचर्यां प्रजानामि । किं मया शक्यं 30 बोधिसत्त्वानां सर्वजगन्मयशरीराणां खकायसर्वकायासंभेदसमाधिप्रतिलब्धानां सर्वभवगत्यनु सृतविपुलनिर्माणचक्राणां सर्वलोकोपपत्तिखशरीरानुबिचारिणां सर्वजगन्नयनरोचनरुचिर 8182 18 जगत्सम.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy