SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ S 170 १३० [२१.० मभिन्न परिवारतया, सर्वजगत्परित्राणप्रसृतानां हीनोत्कृष्टमध्यमसमप्रयोगतया, धरणिसम - मैत्रचित्तानां सर्वजगत्संधारणप्रतिपन्नतया, पूर्णचन्द्रमण्डलसमानानां सर्वजगत्समप्रसृतपुण्यज्ञानरश्मीनामादित्यमण्डलसमानानां सर्वज्ञेयज्ञानालोकावभासनतया, महाप्रदीपकल्पानां सर्वसत्त्वचित्तगहनान्धकारविधमनतया, उदकप्रसादकमणिरत्नसदृशानां सर्वसत्त्वचित्तसरोमाया5 शाट्यकालुष्यापनयनतया, चिन्ताराजमणिरत्नसदृशानां सर्वजगदभिप्रायप्रणिधिपरिपूरणतया, महामारुतसदृशानां सर्वजगत्समाधिसमापत्ति भवन सर्वज्ञता महापुरपरिसंस्थापनतया चर्यां ज्ञातुं गुणान् वा वक्तुम्, पुण्यपर्वतो वा तुलयितुम्, गुणज्योतिर्गणगगनं वा अवलोकयितुम्, महाप्रणिधिवायुमण्डलं वा परिच्छेत्तुम्, धर्मसमताबलं वा प्रमातुम्, महायानव्यूहवर्णान् वा परिदीपयितुम्, समन्तभद्रचर्यानयविशेषान् वा वक्तुम्, महाबोधिसत्त्वसमाधिभावनाद्वारं वा 10 विवरितुन्, महाकरुणामेघान् वा संवर्णयितुम् ॥ गण्डव्यूहसूत्रम् । गच्छ कुलपुत्र, इयमिव दक्षिणापथे स्थिरा नाम राजधानी । तत्र अचला नामोपासिका प्रतिवसति । तामुपसंक्रम्य परिपृच्छ— कथं बोधिसत्त्वेन बोधिसत्त्वत्चर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारको महाप्रभस्य राज्ञः पादौ शिरसाभिवन्द्य महाप्रभं 15 राजानमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य महाप्रभस्य राज्ञोऽन्तिकात् प्रक्रान्तः ॥ १९ ॥
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy