________________
8167
गण्डव्यूहसूत्रम् ।
[२१.०भासमागच्छति । यदा च कुलपुत्र मद्विजतवासिनः सत्त्वा देशप्रदेशेषु प्रामनगरनिगमराष्ट्रराजधानीठ पञ्चकपाय लोके कालखभावसंक्षोभितान् दशाकुशलानां कर्मपथानप्याचरितुमिच्छन्ति, तदाहं तपामनुहाय महामंत्रीगमं लोकन्द्रियावतं नाम वोधिसत्त्वसमाधि
समापद्ये । सननन्तरसमापन्नन्य च ने कुलपुत्र इमं समाधिम् , अथ तेषां सत्त्वानां तानि 5 भयानि ते उपलगाः तानि वैराणि ते विग्रहविवादाःते चित्तसंक्षोभाः तानि विहिंसाचित्तानि प्रशमन्ति व्युपशमन्ति निवर्तन्ते निरुध्यन्ते तद्यथापि तदस्यैव महामैत्रीपूर्वंगमस्य लोकेन्द्रियावतस्य बोधिसत्त्वसनाधिधर्मताप्रतिलाभेन । अपि तु कुलपुत्र, आगमय मुहूर्तं यावत् प्रत्यक्षीभविष्यसि ॥
अथ खलु महाप्रभो राजा तत्यां वेलायां महामैत्रीपूर्वगमं लोकेन्द्रियावर्त बोधिसत्त्व10 समाधि समापन्नः । सननन्तरसमापन्नस्य च राज्ञो महाप्रभस्य इमं महामैत्रीपूर्वङ्गमं लोकेन्द्रि
यावर्त बोधिसत्त्वसमाधिम् , अथ तावदेव सुप्रभं महानगरं सदेशप्रदेशं समाननगरनिगमजनपदराष्ट्राजधानीपरिवार पड़िकारं प्रकन्पितम् । तस्य प्रचलतस्तेऽपि रत्नप्राकारा रत्नप्रासादा रत्नगर्भाणि रत्नगृहाणि रत्नभवनानि रत्नविमानानि रत्नकूटागाराणि रत्ननिहा रनहाणि रत्नगवाक्षाः रत्नवेदिकाः रत्नतोरणानि रत्नार्धचन्द्रा रत्नसिंहपञ्जराणि रत्नखोटकानि रत्न15 बिम्बानि रत्नवितानानि रत्नसूत्रकिङ्किणीजालानि रत्नघण्टाः रत्नध्वजाः रतपताकाः रत्नतालाः संप्रचलिताः संप्रगर्जिताः संघट्टिताः । ते च संघमाना वल्गुं मनोज्ञं श्रवणीयं शब्दमनुरवन्तो येन राजा महाप्रभः, तेनावनमन्ति स्म, प्रणमन्ति स्म । ये च ते सुप्रभस्य महानगराभ्यन्तरवासिनः, सर्वे ते प्रीतिप्रामोद्यपरिस्फुटचेतसो येन महाप्रभो राजा तेनाभिमुखाः सर्वशरीरेण प्रणमन्ति स्म । ये चास्य विजितवासिनः सत्त्वाः सर्वग्रामनगरनिगम20 जनपदराष्ट्रराजधानीषु, तेऽपि सर्वे प्रह्लादितकायचित्ताः प्रीतिप्रामोद्यजाताः येन राजा
महाप्रभस्तेनाभिमुखाः प्रणेमुः। ये च तिर्यग्योनिगताः सत्त्वाः, तेऽपि सर्वे अन्योन्यमैत्रचित्ता हितचित्ता येन राजा महाप्रभस्तेनाभिप्रणताः । यानि च पर्वतशिखराणि तदन्ये चाप्युन्नताः पृथिवीप्रदेशाः, तेऽपि सर्वे येन राजा महाप्रभस्तेनाभिनताः । ये च पुष्पवृक्षाः फलवृक्षाः पत्रवृक्षा वीजग्रामभूतग्रामशस्यतृणगुल्मौषधिवनस्पतयो वा, तेऽपि सर्वे येन ॐ महाप्रभो राजा तेनाभिनताः । यानि चास्य विजिते सर्वोत्ससरोह्रदतडागप्रस्रवणनदीपुष्करिण्युदपानानि, तान्यपि सर्वाणि येन राजा महाप्रभस्तेनाभिमुखं वेगं प्रामुञ्चन् ।
दश च नागराजसहस्राणि महाकालागरुधूपपटलगन्धोदकमेधैर्विचित्रविद्युल्लताज्वालावभासितैरभिगर्जद्भिः सूक्ष्माभिर्गन्धोदकधाराभिश्चतुर्दिशमभिप्रावर्षन् । दश च देवपुत्रसहस्राणि शक्रयामसंतुषितसुनिर्मितवशवर्तिदेवराजप्रमुखानि अन्तरिक्षे गतानि, दिव्यतूर्यमेघ30 कोटीनियुतशतसहस्रसंप्रवादितोदारप्रमुक्तनिर्घोषालंकारम् , असंख्येयाप्सरोगणदिव्यसंगीतिमेघनिर्नादमनोज्ञमधुरनिर्घोषालंकारम्, असंख्येयदिव्यविचित्ररत्नपुष्पमेघप्रवर्षणालंकारम् ,
१ B om. रत्नहाणि. २ B बहुमनोशं.
S168
B68