________________
3164
१२६ गण्डव्यूहसूत्रम्।
[२१,०महाव्यूह भद्रानने नीलवैडूर्यमणिरत्नपादे श्वेतवैडूर्यमये सिंहप्रतिष्ठिते जाम्बूनदसुवर्णसूत्र
श्वेतजाले दिव्यातिरेकविचित्ररत्नवस्त्रमुप्रज्ञतोपचारे असंख्येयरत्नविम्बरचितालंकारे अचिन्त्य___ मणिरत्नव्यूहजालसंडादिते दिव्यरत्ननानाभक्तिविचित्रजाम्बूनदकनकपट्टवितानवितते चिन्ता
राजमणिरत्नपद्मगर्भे महाधर्मासने पर्यङ्केन निषण्णम् । द्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरम् । विचित्राशील्यनुव्यञ्जनोपशोभितगात्रम् । कनकपर्वतमिव नानारत्नविन्यासविराजितम् । आदित्यमण्डलमिव दीप्ततेजसम् । पूर्णचन्द्रमण्डलमिव सौम्यदर्शनम् । ब्रह्माणमिव ब्रह्मपर्षदि विरोचमानन् । सामरमिव गम्भीरधर्मानन्तगुणरत्ननिचयम् । महामेघमिव वर्षखभावनिर्घोषम् । गगनमिव धर्मनयज्योतिर्गणप्रतिमण्डितम् । सुमेरुमिव चातुर्वर्णसत्त्वसागरचित्तप्रतिभास
प्रातन् । रत्नहीपनिव विविधज्ञानरत्नाकीर्णतलम् । पुरतश्चास्य अनेकान् सुवर्णमणिमुक्ता10 वेड्र्यशङ्खशिलाप्रवाल जातरूपरजतरत्नराशीन् , नानारत्नदिव्यवस्त्ररत्नराशीन् , विविधदिव्यरत्नाभरगराशीन् , नानाभक्ष्यभोज्यराशीन् , विविधरसाप्रविशेषनिचयान् , नानाव्यूहविषयस्थापितानपश्यत् । अनेकानि च दिव्यरथरत्नकोटीशतसहस्राणि, अनेकानि दिव्यतूर्यकोटीशतसहस्राणि, अनेकानि दिव्यगन्धप्राकारकोटीशतसहस्राणि, अनेकान् ग्लान प्रत्ययभैषज्यपरिष्कारान् , अनेकान् सर्वोपकरणविशेषराशीन् , कल्पिकाननवद्यान् यथाभिप्रायसत्त्व15 परिभोगाय । अनेकानि च गोशतसहस्राणि सुवर्णशृङ्गखुराणि कंसदोहानि दरिद्राणां सत्त्वानां संग्रहाय स्थापितान्यपश्यत् । अनेकानि च कन्याकोटीनियुतशतसहस्राणि अभिरूपाणि प्रासादिकानि दर्शनीयानि सर्वाभरणविभूषितानि दिव्याम्बरधराणि दिव्योरगसारचन्दनानुलितगात्राणि चतुःषष्टिकलाविधिज्ञानि सर्वकामचर्योपचारकुशलानि स्थापि
तान्यपश्यत् । यथा चास्य पुरतस्तथा सर्वरथ्याचत्वरशृङ्गाटकद्वारवीथिमुखेषु एकैकस्यां रथ्याया20 मुभयोरन्तर्योविंशतिव्योमककोटीः सर्वोपकरणपरिपूर्णैः स्थापिता यदुत सत्त्वसंग्रहाय सत्त्वपरि
ग्रहाय सत्त्वप्रीतिसंजननाय सत्त्वप्रामोद्योत्पादनाय सत्त्वमनःसंप्रसादनाय सत्त्वचित्तप्रह्लादनाय सत्त्वक्लेशव्युपशमाय सर्वधर्मस्वभावार्थसंनियोजनाय सत्त्वसर्वज्ञतासमानार्थीकरणाय सत्त्वपरद्रोहचित्तविनिवर्तनाय सर्वकायवाग्दुश्चरितविनिवर्तनाय सत्त्वदृष्टिशल्यसमुद्धरणाय
सत्त्वकर्मपथपरिशुद्धये ॥ S 165_25 अथ खलु सुधनः श्रेष्ठिदारको महाप्रभस्य राज्ञः सर्वशरीरेण प्रणिपत्य महाप्रभं
राजानमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्वानामववादानुशासनी ददातीति । तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षि30 तव्यम् , कथं प्रतिपत्तव्यम् । आह अहं कुलपुत्र महामैत्रीध्वजां बोधिसत्त्वचर्यां परिशोधयामि, परिपूरयामि । एषा च मे कुलपुत्र महामैत्रीध्वजा बोधिसत्त्वचर्या अनेकेषां बुद्धशतानामनेकेषां बुद्धसहस्राणामनेकेषां बुद्धकोटीनियुतशतसहस्राणां यावदनभिलाप्यानभि