________________
8 161
२१ महाप्रमः। अथ ग्वन्दु धनः श्रेटिदारकस्तां ज्ञानमायामनुस्मरन् , तं मायागतं बोधिसत्त्वविमोक्ष. मुपनिध्यायन् , तां मायागतवर्नतां प्रल्यवेक्षमाणः, तां कर्मनायासमतां प्रतिविध्यन् , तां धर्मनायान तामनुविचिन्तयन् , तां धर्मपरिपाकनिर्माणसमतामनुगच्छन् , तमचिन्त्यं ज्ञानसंभवा5 लोशमनुसरन् . तननन्नप्रणिधिमायागतनिहीरमभिनिर्हरन् , तामसङ्गचर्यानिर्माणधर्मतां विशोधयन् , तंत्र्यचमायागतलक्षणं प्रविचिन्वन् , अनुपूर्वेण जनपदेन जनपदं परिपृच्छन् परिवेरमाणोऽनुविलोकयन् सरदिग्विदिक्पथनिन्नन्थलसमविपमजलाजलपथपर्वतगिरिकन्दरप्रामनगरनिगमजनपदराष्ट्रराजधानीवपरिजनचित्तोऽविश्रान्तशरीरो निखिलगवेषी येन
सुप्रनस्य महानगरस्योपविचारतेनोपसंक्रम्य पर्यपृच्छत्-क स महाप्रभो राजेति । तस्य 10 महाजनकाय उपदर्शयति-तत्कुलपुत्र लुप्रभं महानगरं यत्र महाप्रभो राजा प्रतिवसति ॥
अथ खलु सुचनः श्रेष्टिवान्को येन सुप्रभं महानगरं तेनोपसंक्रम्यादाक्षीत् सुप्रभं महानगरन् । दृष्ट्वा च पुनस्तुर उदन आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजात एवमनुचिन्तयामास-कुत्र कल्याणमित्रः प्रतिवसति ? अद्य तं द्रक्ष्यामि कल्याणमित्रम् । ततः
श्रोष्यामि बोधिसत्त्वां वोधिसत्त्वनिर्याणमुखमचिन्त्यां बोधिसत्त्वधर्मताम् अचिन्त्यान् B65_15 बोधिसत्वगुणगोचरान् अचिन्त्यां बोधिसत्त्ववृपभिताम् अचिन्त्यां वोधिसत्त्वसमाधिविहारिताम्
अचिन्त्यं बोधिसत्त्वविमोक्षविक्रीडितन् अचिन्त्यां बोधिसत्त्वमहारम्भनिस्तारणविशुद्धिम् । एवं चिन्तामनसिकारप्रयुत्तो येन सुप्रभं महानगरं तेनोपजगाम । उपेत्य सुप्रभं महानगरमवलोकयामास विचित्रदर्शनीयं सप्तानां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्नगर्भस्य मुसारगल्वस्य च, सतभी रत्नपरिखाभिः समन्तादनुपरिक्षिप्तं गम्भीराभिजातोदकाभिः 20 सुवर्णवालिकातलीर्णतलाभिर्दिव्योत्पलपद्मकुमुदपुण्डरीकसंछन्नाभिः कालानुसारिचन्दन
कर्दमकलुषोदकाभिः, सप्तरत्नमयतालपतिभिः समन्तादनुपरिक्षिप्तम् , सप्तभिर्वज्ररत्नप्राकारैः समन्ततोऽनुपरिक्षिप्तम् , यदुत सिंहकान्तवज्रप्राकारेण अपराजितवज्रप्राकारेण निर्वेधवीर्यवज्रप्राकारेण दुर्योधनवीर्यवनप्राकारेण असङ्गवादृढप्राकारेण वज्रांशुजालगर्भप्राकारेण
विरजोवर्णव्यूहप्राकारेण अनुपरिक्षिप्तम्। सर्वे च वज्ररत्नमहाप्राकारा असंख्येयमणिरत्नप्रत्यर्पिता 25 जाम्बूनदकनकक्षोडकरुचिरदन्तमालारचिता रजतमणिरुचिरदन्तमालारचिता वैडूर्यमणिरुचिरदन्तमालारचिताः स्फटिकमणिरुचिरदन्तमालारचिता विद्रुममणिरुचिरदन्तमालारचिता लोहितमुक्तारुचिरदन्तमालारचिताः सागरगर्भमुक्तामणिरुचिरदन्तमालारचिताः । तस्य च महानगरस्य दशयोजनान्तराण्यष्टौ द्वाराणि विचित्राणि दर्शनीयानि सप्तानां रत्नानाम् । तञ्च महानगरं विपुलं विस्तीर्णं नानाष्टाङ्गसुविभक्कं नीलवैडूर्यमय्यां पृथिव्यां प्रतिष्ठापितम् । 30 तस्मिंश्च महानगरे दश रथ्याकोट्यः । एकैकस्याश्च रथ्याया उभयपार्श्वसंनिविष्टानि नानारत्नमयानि अनेकविविधरनव्यूहप्रतिमण्डितानि उच्छ्रितरत्नच्छत्रध्वजपताकावैजयन्तीनि सर्वोपकरणसमृद्धानि अनेकसत्त्वनियुताध्युषितानि महागृहशतसहस्राणि ॥
8162