________________
8155
२० अनलः। अथ खलु सुधनः श्रेष्टिदारकम्तां कल्याणमित्रपरंपरामनुस्मरन् , तानि कल्याणनित्रानुशाननीनुग्हानि ननजिवन् , परिगृहीतोऽस्मि कल्याणमित्ररिति स्वचित्तं संतोपयन् , कल्यायमित्रारक्षितोऽस्मि न भूयो विनिर्तियामि अनुत्तरायाः सम्यक्संबोधरित्यनुविचिन्तयन् 5 प्रत्यलभत चित्तप्रीतिम् । चित्तप्रमादं चित्तप्रामोद्यं चित्ततुष्टिं चित्तप्रहर्ष चित्तनन्दी चित्तव्युपशमं वित्तविपुलतां चित्तालंकारतां चित्तासङ्गतां चित्तानावरणतां चित्तविविक्ततां चित्तसमवसरणतां चित्तदशितां चित्तैश्वर्यं चित्तधर्मानुगमं चित्तक्षेत्रस्फरणतां वुद्धदर्शनालंकारचित्ततां दशबलमनसिकाराविश्वातचित्ततां प्रत्यलभत । सोऽनुपूर्वेण जनपदेन
जनपदं ग्रामेण ग्रामं देशेन देशं परिमार्गन् येन तालध्वज नगरं तेनोपसंक्रम्य परिपृच्छति 10 स्म-कुत्रानलो राजेति। तमन्यो जनकाय एतदवोचत्-एष कुलपुत्र अनलो राजा
अर्थकरणे सिंहासनोपविटो राजकार्य करोति । जनपदान् प्रशास्ति । निग्रहीतव्यान्निगृह्णाति, प्रग्रहीतव्यान् प्रगृह्णाति, अपराधितान् दण्डं प्रणयति । विवदतां विवादं छिनत्ति । दीनानाथासयति । दृप्तान् दमयति । प्राणिवधाद्विनिवर्तयति । अदत्तादानाद्विच्छन्दयति । परपरिगृहीताभिलापाद् व्युपशमयति । मृपावादाद्विनिवारयति । पिशुनवचनाद्विवेचयति । 15 परुपवचनाद्विरमयति । संभिन्नालापाद् व्यावर्तयति । अभिध्याया विश्लेपयति । व्यापादादूरीकरोति । मिथ्यादृष्टेवियोजयति ॥ ___अथ खलु सुधनः श्रेष्ठिदारको येन अनलो राजा तेनोपजगाम । सोऽद्राक्षीदनलं राजानं नारायणवज्रमणिविचित्रे असंख्येयनानाविधप्रभाखररत्नपादे अनेकरत्नसुरचितालंकाररुचिरबिम्बे, काञ्चनसूत्रजालश्वेतसुपरिनिष्ठिते, अनेकमणिरत्नदीपप्रद्योतिते, वशिराजमणि20 रत्नमयपद्मगर्भे अनेकदिव्यरनवस्त्रसुप्रज्ञप्ते, विविधदिव्यगन्धधूपितोपचारे उच्छ्रितरत्नध्वज
छत्रशतसहस्रविराजिते रत्नपताकाशतसहस्रोद्विद्धोपशोभिते विचित्ररत्नपुष्पदामकलापाभिप्रलम्बितोज्वलिते विविधदिव्यरत्नवितानवितते महारत्नसिंहासने निषण्णं नवं दहरं तरुणमभिरूपं प्रासादिकं दर्शनीयमभिनीलप्रदक्षिणावर्तकेशं छत्राकारमूर्धानमुष्णीषशिरसं पृथुललाटमभिनीलविशालगोपक्ष्मनयनं मधुरोन्नतचारुतुङ्गनासावंशं हिङ्गुलुकसुवर्णसुश्लिष्टौष्ठं समवहितसुशुक्ल5 पूर्णचत्वारिंशदन्तं सिंहहर्नु परिपूर्णोपचितकपोलं सुरुचिरचापायतभ्रुवं शशाङ्कवर्णोर्णया कृततिलकमायतप्रमुक्तप्रलम्बकर्णं पूर्णचन्द्रसौम्यवदनं कम्बुरुचिरवृत्तग्रीवं श्रीवत्सालंकृतहृदयं सिंहपूर्वार्धकायं चितान्तरांसं सुसंवृत्तोरस्कन्धं प्रलम्बबाहुं जालावनद्धाङ्गुलिचक्राङ्कितहस्तपादं मृदुतरुणोपचितपाणिपादं सप्तोत्सदं वज्रसदृशमध्यं बृहजुगानं सुवर्तितोरं कोशगतबस्तिगुह्यम् ऐणेयजचं दीर्घाङ्गुलिमायतपादपाणि व्यामप्रभं सुवर्णच्छविमेकैकप्रदक्षिणो;ङ्गरोमं न्यग्रोध30 राजपरिमण्डलं लक्षणानुव्यञ्जनोपचितशरीरं चिन्ताराजमणिरत्नमुकुटावबद्धशिरसं जाम्बूनदकनकार्धचन्द्ररचितललाटालंकारमिन्द्रनीलमणिविमलनीलकुण्डलप्रलम्बितकर्णमनर्य
8156
-
१ विशेषयति.