________________
१९ समन्तनेत्रः। अथ खलु सुधनः श्रेष्टिदारकोऽनन्तबुद्धदर्शनावतीर्णोऽनन्तबोधिसत्वन्ननवधानप्रातोऽनन्तबोधिसत्त्वमार्गनयावभासितोऽनन्तवोषिसत्त्वधर्मनयाभिप्यन्दितनिश्चितचित्तोऽनन्तबोधिसत्त्वाधिमुक्तिपथविशुद्धिरनन्तबोधिसत्त्वेन्द्रियात्रभासपतिलब्धोऽनन्तबोधिसत्याशयबलप्रतिष्टितोऽनन्तबोधिसत्त्वचर्यानुगतचेताः अनन्तवोधिसत्त्वप्रणिधानवलतंजातोऽनन्तबोधिसत्त्वा- 5 पराजितध्वजोऽनन्तबोधिसत्त्वज्ञानालोकपरिवर्ती अनन्तबोधिसत्वाधर्मावभानप्रतिलब्धः अनुपूर्वेण येन वेत्रमूलको नाम जनपदत्तेनोपतंक्रन्य समन्तमुखं नरं परिमार्गन् सनन्तदिग्विदिक्षु देशप्रदेशोपचारेषु निम्नोन्नतसमविपमेणु अपरिखिन्नाशयोऽविश्रमन् समानचित्तोऽविवर्त्यवीर्योऽपर्यादत्तचेतनोऽविस्मृतकल्याणमित्रानुशासनः सदाकत्यागमित्रसनुदाचारहृदयवासनः समन्तमुखविज्ञप्तीन्द्रियः सर्वप्रमादविगतो विस्फास्तिकणचक्षुः सर्वतः परिगवेप- 10 माणोऽद्राक्षीत्समन्तमुखं नगरम् , मध्ये वेत्रमूलस्य जनपदत्य दशानां पट्टनसहस्राणां निगमं 881 सुपरिनिष्ठितं दृढप्राकारमुद्विद्धमष्टचबरोपशोभितम् । तस्य मध्ये समन्तनेत्रं गान्धिकमद्राक्षीत् गान्धिकवीथ्यामुपविष्टम् । दृष्ट्वा च येन समन्तनेत्रो गान्धिकस्तेनोपसंक्रम्य तमन्तनेत्रस्य गान्धिकस्य पादौ शिरसाभिवन्ध पुरतः प्राञ्जलिः स्थित्रा एवनाह-मया आर्य, sus अनुत्तरायां सम्यक्संवोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्व- 15 चर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । आह-साधु साधु कुलपुत्र, वेन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । अहं कुलपुत्र सर्वसत्त्वानां व्याधीन् प्रजानामि वातसमुत्यानपि, पित्तसमुत्थानपि, श्लेष्मसमुत्थानपि, सभागक्षुभितानपि, परोपक्रमितानपि, अमनुष्यवैकारिकानपि, विपमपरोपक्रमिकानपि, विविधमन्त्रशत्रवेतालप्रयोगाग्निसमुत्थानपि, उदकसंक्षोभसमुत्थानपि, विविधभयसंत्राससंभवानपि । तेपां च सर्वव्याधीनां प्रशनं प्रजानामि- 20 यद्त स्नेहनं प्रजानामि, वमनं विरेचनमास्थापनं रक्तावसेचनं नाताकर्म कर्पपरिणाहं परिप्वेदनमनुलेपनं विपप्रतिघातं भूतग्रहप्रतिषेधं बृंहणं स्नपनं संवासनं संवर्धनं वर्णपरिशोधनं वलसंजननं प्रजानामि । ये कुलपुत्र सत्त्वा ममान्तिकमुपसंक्रामन्ति दशभ्यो दिग्भ्यः, तेपामहं सर्वेषां व्याधीन् प्रशमयामि । व्याधिप्रशान्तांश्च सुनातानुलितगात्रान् कृत्वा यथार्हाभरणविभूषिताङ्गान् यथार्हवत्रसंछादितशरीरान् विविधभोजनरसाप्रैः संतर्म्य अपरिमितधनसमृद्धान् 25 करोमि । उत्तरे चैषां रागप्रहाणाय धर्म देशयामि अशुभोपसंहारेण । दोपप्रहाणाय धर्म देशयामि महामैत्रीसंवर्णनतया । मोहप्रहाणाय धर्म देशयामि धर्मप्रविचयप्रभेदप्रदर्शनतया। समभागचर्याक्लेशप्रहाणाय धर्म देशयामि । विशेषपरिज्ञानयमुखसंप्रकाशनतया बोधिचित्तसंभवहेतुं परिदीपयामि।सर्वबुद्धगुणधर्मसंप्रयुक्तकथासंप्रकाशनतया महाकरुणासंभवहेतुं परिदीपयामि।अपरिमाणसंसारदुःखसंप्रकाशनतया अपरिमितगुणप्रतिलाभसंभवहेतुं परिदीपयामि। 30 विपुलपुण्यज्ञानसंभारोपचयसंवर्णनतया महायानप्रणिधानसंभवहेतुं परिंदीपयामि।सर्वसत्त्वपरि- . पाकविनयसंदर्शनतया समन्तभद्रबोधिसत्त्वचर्याप्रतिलाभसंभवहेतुं परिदीपयामि । सर्वक्षेत्र