________________
8133
गण्डन्यूहसूत्रम् ।
[१६.०नगरमर्भिधूपयति । ये च सत्त्वान्तं गन्धं जिवन्ति, ते सर्वेऽव्यापन्नचित्ता भवन्ति अवरचित्ता अविहिंसाचित्ता ईर्ष्यानात्सर्यविगतचित्ता अनावाशाठ्यचित्ता अनुनीता अप्रतिहतचित्ता अनवलीनानुन्नतचित्ताः सनचित्ता मैत्रचित्ता हितचित्ताः संवरस्थचित्ताः परपरिग्रहानभिलाषचित्ता भवन्ति । ये च तासां खरं शृण्वन्ति, ते सर्वे प्रहर्षितप्रमुदितप्रणतचित्ता भवन्ति । 5 ये च ताः पश्यन्ति, ते विगतरागनात्मानं संजानन्ति ॥
अथ ब्लु सुधनः श्रष्टिदारकः प्रभूताया उपासिकायाः पादौ शिरसाभिवन्ध प्रभूतामुपातिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलीस्थित्वा एवमाह-मया आयें, अनुत्तरायां सम्यक्तंबौधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यन् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानु॥ शालनी ददातीति । तद्वदतु मे आर्या-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यन् । आह-अहं कुलपुत्र अक्षयव्यूहपुण्यकोपस्य बोधिसत्त्वविमोक्षस्य लाभिनी । इतोऽहं कुलपुत्र, एकपिठरिकाया नानाधिमुक्तान् सत्त्वान् यथाभिप्रेतभोजनैः संतर्पयामि नानासूपैर्नानारतैर्नानावर्णेनानागन्धैः । अतोऽहं कुलपुत्र एकपिठरिकायाः
सत्त्वशतमपि संतर्पयानि यथाभिप्रायै जनैः, सत्त्वसहस्रमपि, सत्त्वशतसहस्रमपि, सत्त्व15 कोटीमपि, सत्त्वकोटीशतमपि, सत्त्वकोटीशतसहस्रमपि, सत्त्वकोटीनियुतशतसहस्रमपि, याव
दनभिलाप्यानमिलाप्यानपि सत्त्वान्नानानाधिमुक्तान् यथाभिप्रेतैर्भोजनः संतर्पयामि, संप्रवारयामि, संतोषयामि, संप्रहर्पयामि, संप्रमोदयामि, परिप्रीणयामि, आत्तमनस्कान् करोमि । न चैषा पिठरिका हीयते, न परिहीयते, नोनीभवति, न क्षीयते, न पर्यादानं गच्छति, न सीमामुपैति, न निष्ठां गच्छति । अनेन कुलपुत्र पर्यायेण जम्बुद्वीपपरमाणुरजःसमानपि 20 सत्त्वान् , एवं चातुपिकलोकधातुपरमाणुरजःसमानपि, साहस्रलोकधातुपरमाणुरजःसमानपि, द्विसाहस्रलोकधातुपरमाणुरजःसमानपि, त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमानपि, यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि सत्त्वानुपसंक्रान्तान् नानाधिमुक्तान् यथाभिप्रेतैर्भोजन नासूपैर्नानारसैर्नानावगै नागन्धैः संतर्पयामि, संप्रवारयामि, संतोषयामि, संग्रहर्षयामि, संप्रमोदयामि, परिप्रीणयामि, आत्तमनस्कान् करोमि । न च एषा पिठरिका 25 हीयते, न परिहीयते, नोनीभवति, न क्षीयते, न पर्यादानं गच्छति, न सीमामुपैति, न निष्ठां न पर्यन्तं न परिनिष्ठां गच्छति । सचेत् कुलपुत्र दशदिक्सर्वलोकधातुपर्यापन्नाः सर्वसत्त्वा मदन्तिकमुपसंक्रमेयुर्नानाधिमुक्ता नानाभिप्रायाः, तानपि सर्वान् यथाभिप्रेतैर्भोजनैः संतप्येयम् , यावदात्तमनस्कान् कुर्याम् । यथा नानाभोजनैः एवं नानापानविधिभिः नानारसागः
नानाशयन नावस्त्रैः नानापुष्पैर्नानामाल्यैर्नानागन्धैर्नानाधूपैर्नानाविलेपनै नाचूर्णैर्नानारत्नै
30 नानाभरणैर्नानारत्नरथैर्नानाछत्रैर्नानाध्वजै नापताकाभिर्नानाविधोपकरणविशेषैः संतप्येयम्, stan - यावदात्तमनस्कान् कुर्याम् । अपि तु खलु पुनः कुलपुत्र ये केचित् पूर्वस्यां दिशि
१Bअभिपुरयति.