SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 8135 8 136 ૨૦૩ गण्डव्यूहसूत्रम् । [ १५.० नामनभिलाप्यन्, अनभिलाप्यमनभिलाप्यानामनभिलाप्यपरिवर्तम्, अनभिलाप्यपरिवर्तमनभि लाप्यपरिवर्तानामनभिलाप्यानभिलाप्यन्, अनभिलाप्यानभिलाप्यमनभिलाप्यानभिलाप्यानाननभिलाप्यानभिलाप्यपरिवर्तम्, तत्य पुरतो महान् वालिकाराशिरभूदनेकयोजनप्रमाणः । स तं बालिकाराशिं गणयंस्तुल्यन् प्रसिञ्चन् संख्यामकार्षीत् - इयन्तीमानि वालिका6 फल्कानि यावदियन्त्येतानि बालिकाकलकान्यनभिलाप्यपरिवर्तनीति । स तं वालिकाराशि गणनासकेतनिर्देशेन निर्दिश्य एवमाह - एप कुलपुत्र गणनायोगो लोकधातुपरंपरया सुप्रवर्तते बोधिसत्त्वानाम् । अनेन गणनानयेन वोधिसत्त्वाः पूर्वस्यां दिशि लोकधातुप्रसरान् गणयन्ति । एवं दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊध्वीयां दिशि । अनेन गणनानयेन वोधिसत्त्वा लोकधातु10 प्रसरान् गणयन्ति । एष कुलपुत्र गणनानयो दशसु दिक्षु लोकधातुनामपरंपरानिर्देशेषु प्रवर्तत बोधिसत्त्वानाम् । अनेन गणनानयेन वोधिसत्त्वा दशसु दिक्षु लोकधातुनामपरंपरां गणयन्ति । यथा लोकधातुनामपरंपरानिर्देशेषु, एवं दशसु दिक्षु कल्पनामपरंपरानिर्देशेषु बुद्धनामपरंपरानिर्देशेषु धर्मनानपरंपरानिर्देशेषु सत्त्वनामपरंपरानिर्देशेषु कर्मनामपरंपरा - निर्देशेषु । एष एव गणनानयो यावद्दशसु दिक्षु सर्वनामपरंपरानिर्देशेषु प्रवर्तते 15 बोधिसत्त्वानाम् । अनेन गणनानयेन बोधिसत्त्वा दशसु दिक्षु सर्वनामपरंपरां गणयन्ति । एतमहं कुलपुत्र, सर्वधर्मज्ञानशिल्पाभिज्ञावन्तं बोधिसत्त्वज्ञानालोकं जानामि । किं मया शक्यं सर्वजगत्संख्यानुप्रविष्टानां वोधिसत्त्वानां सर्वधर्मविधिसंख्यानुप्रविष्टानां त्र्यध्वसंख्यानुप्रविष्टानां सर्वसत्त्वसंख्यानुप्रविष्टानां सर्वधर्मस्कन्धसंख्यानुप्रविष्टानां सर्वबुद्धबोधिसंख्यानुप्रविष्टानां सर्वधर्मनामचक्रवशवर्तिनां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, 20 गोचरो वा सूचयितुम्, विषयो वा प्रभावयितुम्, बलं वा संवर्णयितुम्, आशयो वा निदर्शयितुम्, संभारो वा परिदीपयितुम्, प्रणिधानं वा निर्देष्टुम्, चर्यां वा संदर्शयितुम्, पारमितापरिशुद्धिर्वा अभिद्योतयितुम्, समुदागमपरिशुद्धिर्वा संप्रकाशयितुम्, समाधिविषयो वा वक्तुम्, ज्ञानालोको वा अनुगन्तुम् ॥ गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे समुद्रप्रतिष्ठानं नाम नगरम् । तत्र प्रभूता 26 नामोपासिका प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रवचनं श्रुत्वा संहर्षिततनुरुहो महाप्रीतिवेगसंजातः प्रमुदितमानसः सुदुर्लभाश्चर्याशयरत्नप्रतिलब्धो विपुलजगद्धितचित्तचेष्टानिर्यातो बुद्धोत्पादपरंपरावतारवशवर्ती धर्ममण्डलविशुद्धिमतिपरमः सर्वत्रानुगतविभक्तिनिर्याणनिदर्शन30 परमः त्र्यध्वतलासंभिन्नबुद्धविषयः अक्षयपुण्यसागरसंभूतचेताः महाज्ञानावभासवशवर्ती त्रिभुवनपुरबन्धनकपाटनिर्भेदः इन्द्रियेश्वरस्य दारकस्य पादौ शिरसाभिवन्द्य इन्द्रियेश्वरं दारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य इन्द्रियेश्वरस्य दारकस्यान्तिकात्प्रक्रान्तः॥१३॥ १ Bom. कर्मनामपरंपरानिर्देशेषु.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy