________________
गण्डव्यूहसूत्रम् ।
[१३.०मुखं बुद्धपर्षन्मण्डलविभक्तिमुखं बुद्धपर्षन्मण्डलसागरावतरणमुखं बुद्धबलावभासमुखं बुद्धसमाधिमुखं बुद्धसमाधिविकुर्वणमुखं बुद्धविहारमुखं वुद्धाधिष्ठानमुखं वुद्धनिर्माणमुखं बुद्धपरसत्त्वचित्तविज्ञप्तिमुखं बुद्धविकुर्वितनुखं तुषितभवनसंवासमुखं यावत्परिनिर्वाणसंदर्शनमुखम्
अप्रमाणसत्त्वार्थक्रियानुखं गम्भीरधर्मनयमुखं विचित्रधर्मनयमुखं बोधिसत्त्वधर्मरूपमुखं बोधि5 चित्तसंभवरूपधर्ममुखं बोधिचित्तसंभाररूपमुखं प्रणिधिरूपमुखं चर्यारूपमुखमभिज्ञारूपमुखं निर्याणरूपनुखं धारणीविशुद्धिरूपमुखं ज्ञानमण्डलविशुद्धिरूपमुखं प्रज्ञापरिशुद्धिरूपमुखं बोध्यप्रमाणरूपमुखं स्मृतिविशुद्धिरूपमुखम् । एतमहं कुलपुत्र समन्तस्मृतिव्यूहं प्रज्ञापारमितामुखपरिवतं जानामि । किं मया शक्यमाकाशधातुसमचित्तानां बोधिसत्त्वानां धर्मधातुविपुलमतीनां पुण्यसंभारोपस्तब्धसंतानानां लोकोत्तरप्रतिपत्प्रतिपन्नानामसमुदाचारलोक10 धर्माणां वितिमिरज्ञानालोकचक्षुःप्रतिलब्धानामतमःसर्वधर्मधातुप्रतिविद्धानां गगनकल्पा
प्रमाणबुद्धीनां सर्वारम्बणानुस्मृतचक्षुषां असङ्गभूम्यालोकगर्भाणां सर्वधर्मार्थपदप्रभेदकुशलानां सर्वलोकानभिभूतानां लोकचारित्रविधिविचाराणां सर्वलोकगल्यनवद्यानां सर्वलोकार्थक्रियापरमाणां सर्वजगत्प्रतिशरणानां सर्वजगद्वागुपचारविधिज्ञानां सर्वजगन्निवासाशयानां यथाशयविज्ञप्तिनिदर्शनानां सर्वकालचक्रवशवर्तिनां चयां ज्ञातुं गुणान् वा वक्तुम् ॥ 15 गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे त्रिनयनो नाम जनपदः । तत्र सुदर्शनो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥
__ अथ खल सुधनः श्रेष्ठिदारको मैत्रायण्याः कन्यायाः पादौ शिरसाभिवन्द्य मैत्रायणी कन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मैत्रायण्याः कन्यायाः सकाशात् 20 प्रक्रान्तः ॥ ११॥
S127