SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ S 125 S 124 १३ मैत्रायणी । अथ खलु लुध्नः श्रेष्ठिदारकः कल्याणमित्राचिन्त्यगोचरनियतः उदाराधिमुक्तिविशुद्धो महायानाभिमुखो बुद्धज्ञानाभिलाषी बुद्धधर्मसमवसरणः कल्याणमित्रानुबन्धनाभिकाङ्क्षी धर्मगोचरविचारी असङ्गङ्गानाभिनुन्डो भूनकोटीसुविनिश्चितः ज्ञानकोटीस्थितऽ विषयः त्रध्यक्षणकोट्यनुगतः आकाशतोव्यद्वयाभिमुखः अद्वयकोटीविनिश्चयप्राप्तो धर्मधातुकोट्यविकल्पविहारी अनावरणकोटीविनयप्रतिपधप्रविष्टः कर्मकोटयविरोधपरमः तथागतकोटयविकल्पविहारी सर्वसत्त्वसंज्ञा जाल विकिरणज्ञानपरमः सर्वक्षेत्राभिनिवेशविगतः सर्ववुद्धपर्यन्मण्डलेप्यनुनीतचित्तः सर्वबुद्धक्षेत्र परिशुद्धिष्यनिकेत बिहारी सर्वसत्त्वेषु निरात्मनिः सस्यनंज्ञी सर्वशब्देषु वाक्पथोपमावतीर्णः सर्वरूपेषु रूपप्रतिभासविज्ञप्तिपरमोऽनुपूर्वेण येन सिंह - 10 विजृम्भितं नगरं तेनोपसंक्रम्य मैत्रायणीं कन्यानन्वेषमाणः परिमार्गमाणोऽश्रौषीत् - एषा मैत्रायणी कन्या राज्ञः सिंहकेतोर्दुहिता पञ्चकन्याशतपरिवारा वैरोचनगर्भप्रासादतलाभिरूढा उरगऩारचन्दनपादे सुवर्णसूत्रजालक्ष्यते दिव्यचीवरप्रज्ञप्ते भद्रासने उपविष्टा धर्मं देशयति। श्रुत्वा च पुनः सिंहविजृम्भितं नगरं प्रविश्य येन राज्ञः सिंहकेतोर्गृहं तेनोपसंक्रम्य राज्ञो बहिर्द्वारशालायां प्रत्यस्थात् मैत्रायण्याः कन्याया दर्शनकामः । स तत्राद्राक्षीदनेकानि 15 प्राणिशतानि, अनेकानि प्राणिसहस्राणि, अनेकानि प्राणिशतसहस्राणि प्रविशमानानि । दृष्ट्वा च परिपृच्छति - यूयं गच्छथ कुलपुत्राः, क वा आगच्छथ ? तेऽवोचन् - मैत्रायण्याः सकाशं धर्मश्रवणाय । तस्यैतदभवत् -- नात्र कश्चित्प्रतिनिवार्यतेऽनुप्रविशन् । इति स प्राविशत् । प्रविष्टोऽद्राक्षीत्तं वैरोचनगर्भं प्रासादं स्फटिकसंस्थिततलायां पृथिव्यां वैडूर्यमयैः स्तम्भैर्वज्रमयैौर्भत्तिभिर्जाम्बूनदकन ककूटनिर्यूहशतसहस्त्रालंकारमसंख्येयमणिरत्नविचित्रसह20 त्रगर्भरत्नादर्शमण्डलरचितं जगद्रोचनमणिरत्नव्यूहमसंख्येयरत्नजालपरिक्षिप्तं सुवर्णघण्टानां शतसहस्रसमीरितं मधुरनिर्घोषाचिन्त्यव्यूहालंकारम्, तां च मैत्रायणीकन्यामद्राक्षीत् अभिनीलनेत्रामभिनीलकेशीं सुवर्णवर्णच्छविम् । स तस्याः पादौ शिरसाभिवन्द्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्राञ्जलिः स्थित्वा एवमाह - मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं 25 प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या कथं बोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । आहप्रेक्षस्व कुलपुत्र मम भवनव्यूहानिति । स समन्तादनुविलोकयन्नद्राक्षीदेकैकस्या भित्तेरेकैकस्मात्स्तम्भादेकैकस्मादादर्शमण्डलादेकैकस्मादाकारादेकैकस्मात्संस्थानादेकैकस्मान्मणिरत्नात् एकैकस्याः सुवर्णघण्टायाः एकैकस्माद्रत्नवृक्षादेकैकस्माद्रोमविवरादेकैकस्माद्रत्नहारात् धर्म30 धातुगर्भांस्तथागतान् सप्रथमचित्तोत्पादान् सचर्याप्रणिधानविषयान् सनिर्याणव्यूहान् साभिसंबोधिविकुर्वितान् सधर्मचक्रप्रवर्तनान् सपरिनिर्वाणदर्शनान् प्रतिभासयोगेन । यथा च १S गौरव. ---
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy