________________
S122
गण्डन्यूहसूत्रम् ।
[१२.०धाता परिनिर्वातीति । अपर्यन्तः कुलपुत्र भवेज्जम्बुद्वीपे सर्वतृणकाष्ठशाखापत्रपलाशानां परमाणुभागशः परिच्छिन्नानान् , न त्वेव तेषां तथागतनाम्नां बोधिसत्त्वप्रणिधीनां वोधिसत्त्वचर्याग्रस्थानविशेषाणाम् , येऽस्मद्भवनगततालपतिभ्यो यावत्सर्ववाद्यभाण्डरत्नाभरणगृहपरिभोगेभ्यो वायुसमीरितभ्यो बुद्धधर्मबोधिशब्दा निश्चरन्ति अनुरवन्ति, श्रोत्रविज्ञप्तिमागच्छन्ति । ते वयं कुलपुत्र, बुद्धसंघबोधिसत्त्वप्रस्थानप्रणिधिचर्यानामनि|पेण महाप्रीतिवेगहर्पसंजाता एतस्य सकाशनुपसंक्रमामः । स एपोऽस्माकमुपसंक्रान्तानां तथा धर्मं देशयति, यदस्मत्परिपदि अनेके सत्त्वा अविवा भवन्त्यनुत्तरायाः सम्यक्संबोधेः ॥
अपरिमाणानि च कामावचरदेवपुत्रसहस्राण्युदारोदारवर्णान्याकाशे स्थित्वा मनोमय्या पूजया पूजयित्वा एवमाहुः-अस्य कुलपुत्र पञ्चतपस्तप्यत एभ्योऽग्निकूटेभ्यस्तथारूपा प्रभा 10 निश्चरति, यया प्रभया अवीचिपर्यन्तान् सर्वनिरयानवभास्य सर्वनैरयिकसत्त्वदुःखानि प्रतिप्रस्रब्धानि । तयैव प्रभया अयमस्माकं चक्षुषु आभासमागच्छति । ते वयमस्योपरि चित्तानि प्रसादयित्वा प्रणीतेषु कामावचरदेवनिकायेषूपपन्नाः । ते वयमस्य कृतज्ञतया दर्शनेनावितृप्ताः सर्वकामरतिमुत्सृज्य अस्य सकाशमुपसंक्रमामः । तत एषोऽस्माकमुपसंक्रान्तानां तथा धर्म देशयति, यदपरिमाणाः सत्त्वा वोधाय प्रणिदधति ॥ 15 अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः
इममेवं रूपं धर्मनयं श्रुत्वा जयोष्मायतने ब्राह्मणे भूतकल्याणमित्रसंज्ञामुत्पाद्य जयोष्मायतनस्य ब्राह्मणस्य पादयोः प्रणिपल्य एवमाह-अत्ययमत्ययतो देशयाम्यार्य योऽहं कल्याणमित्राज्ञां प्रतिवाहयामि । अथ खलु जयोष्मायतनो ब्राह्मणः सुधनं श्रेष्ठिदारकं गाथयाध्यभाषत
प्रदक्षिणं य बोधिसत्त्व आनुशास्ति कुर्वती न काङ्क्षये गुरुभ्य एकधा स्थपित्व मानसम् । ततोऽस्य सर्व अर्थ भोन्ति तेऽपि च प्रदक्षिणाः
प्रदक्षिणं च बुद्धज्ञानु बोधिमूलि बुध्यते ॥ १ ॥ अथ खल सुधनः श्रेष्ठिदारकस्तं क्षुरधाराचितं पर्वतप्रपातमार्गमभिरुह्य तत्र महाग्निस्कन्धे प्रापतत् । तेन प्रपतता सुप्रतिष्ठितो नाम बोधिसत्त्वसमाधिः प्रतिलब्धः । तेन 25 चाग्निस्पर्शनेन प्रशमसुखाभिज्ञो नाम बोधिसत्त्वसमाधिः प्रतिलब्धः । स एवमाह-आश्चर्यमार्य यावत्सुखसंस्पर्शोऽयं अग्निस्कन्धः, एष च क्षुरधाराचितः पर्वतप्रपातमार्गः । स आह-अहं कुलपुत्र, अपर्यादत्तमण्डलस्य बोधिसत्त्वविमोक्षस्य लाभी । एतमहं कुलपुत्र अपर्यादत्तमण्डलं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं तेजोरश्मिकल्पानां बोधिसत्त्वानां सर्वजगत्क्लेशदृष्टिपर्यादत्तप्रणिधानानामप्रत्युदावहँकेतूनामपर्यादत्तहृदयानामदीन30 चित्तानामसंकुचितमानसानां वज्रगर्भनारायणकल्पानां महारम्भोत्तरणाविषण्णानामशिथिल
B49
Som. बुद्धधर्मबोधिशब्दा,