________________
S 119
१२
गण्डव्यूहत्सूत्रम् ।
लाभविशुद्धये महाधर्मवेगविवर्धनतायै कायविशुद्धये अप्रमाणयुद्धकायाभिनिर्हरणतायै वाग्विशुद्धये तथागतवोपप्रतिलाभाय चित्तविशुद्धये सर्वज्ञताप्रतिलाभाय धर्मं देशयति ॥
१२.०
दश च संतुतिदेवराजसहस्राणि सदेवपुत्रा प्तरगणोपरिवाराणि उपर्यन्तरिक्षे स्थित्वा सर्वगन्धचूर्णमेघवर्षभिप्रवृष्य पूजयित्वा नमस्कृत्य एवमाहुः - अस्य कुलपुत्र, पञ्चतपस्तप्यछनानस्य अस्माकं स्वभवनेषु रतिर्न भवति । ते वयमनभिरताः सन्तः एतस्य सकाशमुपसंक्रनानः । तत एषोऽस्नाकमुपसंक्रान्तानां सर्वविपयानवेक्षतायै धर्मं देशयति । संतुष्टिचित्ततायै चित्तपरितुष्टितायै कुशलमूलसंजननतायै वोधिचित्तोत्पादप्रतिलाभाय यावत्सर्वबुद्धधर्मपरिपूरणाय धर्मं देशयति ॥
दश च सुयामदेवराजसहस्राणि सदेवपुत्राप्सरोगणपरिवाराणि दिव्यानि मान्दारव10 कुसुमवर्षाप्यभिप्रवृप्य एवमाहुः अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्माकं दिव्य संगीतिषु रतिर्न भवति । ते त्रयमनभिरता एतस्य सकाशमुपसंक्रमामः । तत एषोऽस्माकमुपसंक्रान्तानां सर्वकामरतिविनिवर्तनतायै यावत्सर्वबुद्धधर्मप्रतिलाभाय धर्मं देशयति ॥
दश च शक्रदेवेन्द्रशतसहस्राणि प्रत्येकं द्वात्रिंशद्भिरुपेन्द्रैः सदेवपुत्राप्सरोगणपरिवारैः सार्धं दिव्यवत्ररत्नाभरणकुसुममेघवर्षमभिप्रवृष्य एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य 15 अस्माकं सर्वशक्रभवनोद्यानक्रीडावन दिव्य तूर्य तालोपचारसंगीतिपरिभोगेषु रतिर्न भवति । ते वयमनभिरता एतस्य सकाशमुपसंक्रमामः । तत एषोऽस्माकमुपसंक्रान्तानां सर्वकामरतिप्रहाणाय धर्मं देशयति । सर्वमिदमनित्यं चलं व्ययधर्ममिति वाचमुदीरयति । सर्वमदप्रमादसमुच्छेदनाय धर्मं देशयति अनुत्तरबोधिच्छन्दविवर्धनतायें । अपि तु खलु पुनः कुलपुत्र अस्य संप्रेक्षितेन इमानि मेरुशिखराणि संप्रकम्पितानि । ते वयं व्यथितसंविग्न20 चित्ताः सर्वज्ञताचित्तोत्पादनदृढतया सर्वज्ञताज्ञाने प्रणिविमभिनिर्हरामः ||
दश च नागसहस्राणि ऐरावतनन्दोपनन्दनागराजप्रमुखानि उपर्यन्तरिक्षे गतानि दिव्यकालानुसारिचन्दनमेघैर्नागकन्यासंगीतिनिर्नादमधुरनिर्घोषैर्दिव्यगन्धोदकधाराप्रसृतप्रमुकैरभिप्रवृष्य एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यत एभ्यो महाग्निस्कन्धराशिभ्य आभाः प्रमुक्ताः सर्वनागभवनान्यवभास्य वालिकावर्षसुपर्णिभयान्यपनयन्ति । क्रोधप्रवृत्ति चैषां 25 प्रशमयित्वा आशयं प्रह्लाद्य मनः प्रसादयन्ति । तत एषोऽस्माकं प्रसन्नचित्तानां धर्मं देशयति, यदुत हीननागगतिविजुगुप्सनतायै सर्वावरणीय कर्मप्रहाणाय । अत्ययं देशयित्वा अनुत्तरायां सम्यक्संबोध चित्तान्युत्पाद्य सर्वज्ञतायां प्रतिष्ठापयति ॥
दश च यक्षेन्द्रसहस्राणि गगनतले स्थित्वा नानाविधया पूजया पूजयित्वा जयोष्मायतनं ब्राह्मणं सुधनं च श्रेष्ठिदारकमेवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्मत्पा - 30 दानां मनुष्येषु मैत्रं चित्तं संजायते । सर्वयक्षराक्षसकुम्भाण्डाश्च मैत्रचित्ता भवन्ति । ते मैत्र
१ B प्रह्लादयन्ति