SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ S 116 १२ जयोष्मायतनः। अथ खलु नुधनः श्रेष्टिदारकोऽपराजितध्वजबोधिसत्त्वविमोक्षज्ञानावभासितः अचिन्त्यबुद्धविनयविकुर्वितप्रत्यक्षविहारी अचिन्त्यबोधिसत्त्वविमोक्षप्रत्यक्षज्ञानाभिज्ञः अचिन्त्यबोधि मन्चसमाधिज्ञानावभासितत्रित्तः सर्वकालसमवसरणसमाधिज्ञानावभासप्रतिलब्धः सर्व5 संज्ञानंगतसमवसरणतमाथिविषयावभासितः सर्वजगद्विशेषवतिज्ञानालोकप्रतिलब्धः सर्वत्र्यध्वा नुमतगोचरावेहाराभिमुखः अद्वयविकल्पसमतानिर्देशज्ञानपरमः सर्वारम्वणप्रसरितज्ञानालोकः सत्त्वश्रद्धाभिमुखक्षान्तिविशुद्ध्यधिनुक्तिकोशकुशलः स्वभावधर्मक्षान्तिनिश्चयज्ञानालोकप्रतिलब्धः सर्वत्रानुगताभिज्ञबोधिसत्त्वचर्यास्वभावभावनाविरहितचित्तः सर्वज्ञतावेगाविवर्त्यचित्तो दशवलज्ञानविद्युदवभासप्रतिलब्धः धर्मधातुनिर्घोषाभिलाषावितृप्तचित्तः सर्वज्ञता10 विहारगोचरावतरणप्रतिपत्तिचित्तः अनन्तबोधिसत्त्वचर्याव्यूहाभिनिर्हारचित्तोऽनन्तबोधि सत्त्वमहाप्रणिधानमण्डलपरिशोधनचित्तः अनन्तमध्यलोकधातुजालाक्षयानुगमज्ञानाभिमुखचित्तः अनन्तसत्त्वसागरपरिपाकविनयासंकुचितचित्तः अनन्तबोधिसत्त्वचर्याविषयं संपश्यन् अनन्तलोकवानुगतिविमात्रतां संपश्यन् अनन्तलोकधातुविभक्तिविचित्रता संपश्यन् अनन्तलोकधातुसूक्ष्मोदारारम्बणान्तर्गतां संपश्यन् अनन्तलोकवातुप्रतिष्ठानसंज्ञाजालविचित्रितां 15 संपश्यन् अनन्तलोकधातुव्यवहारप्रज्ञप्तिसंवृतिविमात्रतां संपश्यन् अनन्तसत्त्वाधिमुक्तिविमा त्रतां संपश्यन् अनन्तसत्त्वविभक्तिविमात्रतां संपश्यन् अनन्तसत्त्वपरिपाकविनयानुगमं संपश्यन् अनन्तसत्त्वदिकालसंज्ञागतविचित्रतां संपश्यन् कल्याणमित्राण्यभिमुखीकुर्वाणोऽनुपूर्वेण येन ईषाणे जनपदे जयोष्मायतनो ब्राह्मणः, तेनोपसंक्रान्तः । तेन च समयेन जयोष्मायतनो ब्राह्मण उग्रं तपः तप्यति सर्वज्ञतामारम्वणीकृत्य । तस्य चतुर्दिशं महानग्नि20 स्कन्धः पर्वतमात्रोज्ज्वलितः । अभ्युद्गतमहापर्वतप्रपातः क्षुरधारामार्गः संदृश्यते ॥ अथ खलु सुधनः श्रेष्ठिदारको जयोष्मायतनस्य ब्राह्मणस्य पादौ शिरसाभिवन्ध पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यों वोधिसत्त्वानामववादानुशासनी ददातीति । तद्वदतु मे आर्यः कथं वोधिसत्त्वेन 25 बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । स आह-गच्छ कुलपुत्र, एतं क्षुरधारमार्ग पर्वतमभिरुह्य अत्र अग्निखदायां प्रपत । एवं ते बोधिसत्त्वचर्या परिशुद्धिं गमिष्यति ॥ अथ खलु सुधनस्य श्रेष्ठिदारकस्य एतदभवत्-दुर्लभा अष्टाक्षणविनिवृत्तिः । दुर्लभो मानुष्यप्रतिलाभः । दुर्लभा क्षणसंपद्विशुद्धिः । दुर्लभो बुद्धोत्पादः । दुर्लभा अविकलेन्द्रियता । दुर्लभो बुद्धधर्मश्रवः । दुर्लभं सत्पुरुषसमवधानम् । दुर्लभानि भूतकल्याणमित्राणि । दुर्लभो 30 भूतनयानुशासनोपसंहारः । दुर्लभं सम्यग्जीवितं मनुष्यलोके । दुर्लभा धर्मानुधर्मप्रतिपत्तिः । मा हैवायं मारो भविष्यति माराधिष्ठितो वा मारकायिको वा कल्याणमित्रप्रतिरूपको वा बोधिसत्त्वखण्डको वा, यो मम कुशलमूलान्तरायाय प्रतिपन्नः, यो मम जीवितनिरोधाय
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy