________________
G
597
गण्डव्यूहसूत्रम् ।
९.०नारमण्डलविद्रावणधर्मदिग्द्योतनमहाबोधिसत्त्वविक्रमविकुर्वितान्यपश्यत् । कुतश्चिद्रोममुखरश्मिजान्नडला यानि नबोधिसत्वचर्यानिरूपणानि यान्यात्मभावोपादानानि ये कुलोपपत्तिपरिग्रहाय नपकाय परिनिष्पत्तये ये कल्याणमित्रानुशासनीपरिग्रहाः,यानि कल्याणमित्रोपदेशप्रतिपत्तिस्थानानि, यानि तथागतध्यानाङ्गपरिनिप्पत्त्यनुरूपविहारभवनविमानजनपदगिरिकन्द5 राणि, यानि ऋपिशरीराणि, पैस्तानि ध्यानाङ्गानि निष्पादितानि, यानि नृपाधिपत्यानि, यानि नैष्क्रम्यनुखाने, ये व्रतत्तमादानाकल्पेर्यापथाः, तत्सर्वं सुधनः श्रेष्ठिदारकोऽपश्यत् ॥
कुतश्चिद्रोनमुखरहिमजालमण्डलात् प्रज्ञापारमिताचर्याविहारसर्वधर्मपर्येष्टिसंप्रयुक्तान् कायपरिग्रहानपझ्यत् । यैः कायरेकैकंधर्मपदं सर्वास्तिपरित्यागितया सर्वसत्त्वानामन्तिका
पर्येपितं सर्वोपस्थानपरिचर्यासर्वकल्याणमित्रसकाशात्पर्येषितं श्रद्धागौरवनिर्जातेन च काय1७ प्रमाणेन तथागतसकाशात्पर्येपितम् , यथा चैकत्वं धर्मपदं तथा सर्वधर्मपदानि प्रज्ञापारमिताप्रतिसंयुक्तानि यानि सर्वजगदुपपत्तिप्रतिभासैः कायैः पर्येषितानि, तत्सर्वं सुधनः श्रेष्ठिदारकः एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्वपरिपाकोपायसत्त्वगतिसमुद्रप्रसरितान् सर्वसत्त्वसंग्रहप्रयोगानपश्यत् । एकैकं च
सत्त्रं सर्वसत्त्वकायसदृशैरात्मभावोपचारमुखैः पूर्वात्मभावोपादानरुपायकौशल्यचर्याप्रयुक्तः 15 संगृह्यमाणं तत एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्विद्रोममुखरश्मिजालमण्डलात् या भगवतः पूर्वसर्वकल्पप्रणिध्यभिनिर्हारचर्या सर्वसत्त्वपरिपाकप्रणिध्यभिनिहरिचर्या सर्वक्षेत्रपरिशुद्धिप्रणिध्यभिनिर्हारचर्या, यानि च सर्वप्रणिध्यभिनिरिमण्डलानि तेषु तेषु तथागतपादमूलेषु अभिनिर्हतानि सर्वसंसारदोषाणां तस्य तस्य संसारदोषस्य प्रतिपक्षेण, तत्सर्वं सुधनः श्रेष्ठिदारकस्तत एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । 20 कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबलपारमिताचर्यासंप्रयुक्तान् पूर्वयोगसमुद्रानपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वज्ञानचर्याविचारसंप्रयुक्तानज्ञाननिद्राप्रसुप्तसत्त्वप्रबोधनशरीरान् पूर्वयोगसमुद्रानपश्यत् ॥
अथ खलु सुधनः श्रेष्ठिदारकः सारध्वजं भिक्षु तथा समाहितमुपनिध्यायन्तमुपपरीक्षमाणः, तत्समाधिविमोक्षमण्डलमनुस्मरन्, तामचिन्त्यां बोधिसत्त्वसमाधिवृषभिताॐ मनुविचिन्तयन् , तमचिन्त्यं सत्त्वार्थनयसागरमवतरन् , तदचिन्त्यं समन्तस्रोताभिमुखव्यूहाभिसंस्कारमुखमनुसरन्, अधिमुच्यमानः, तद्धर्मधातुव्यूहविशुद्धिज्ञानमुखमवतरन्, तद्बुद्धाधिष्ठानं संप्रतीच्छन् , ज्ञानं निस्तीरयमाणः, तद्बोधिसत्त्ववशितावलं संजनयन् , तद्बोधिसत्त्वप्रणिधिबलं दृढीकुर्वाणः, तद्बोधिसत्त्वचर्याबलं विस्तारयन् , सारध्वजस्य भिक्षोः पुरतः एकमपि रात्रिंदिवसमतिनामयति, द्वावपि, सप्तापि रात्रिंदिवानि पुरतोऽतिनामयति, 30 अर्धमासमपि, मासद्वयमपि, यावत् षडपि मासान् षड् वा रात्रिंदिवानि सारध्वजस्य भिक्षोः
पुरतोऽतिनामयति । ततः षण्णां मासानां षण्णां च रात्रिंदिवानामत्ययेन सारध्वजो भिक्षुस्तस्मात्समाधेर्युत्थितः । सुधन आह-आश्चर्य बतेदम् , आर्य, यावद्गम्भीर एष