SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ S 94 गण्डव्यूहसूत्रम् ! [ ९.० मानान् सर्वकरपोद्दाहाग्निसागर संवासशरीरानुद्द्योतवलं संदर्शयमानान्, गगनतले सर्वलोकधातुप्रसरपाणितलसंधारगवलतां संदर्शयनानान् चित्तक्षणे चित्तक्षणे ऋद्धिवशितायां सत्वान् प्रतिष्ठापयमानान् धर्मधातुस्फरणाप्रतिप्रत्त्रव्धानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसनांश्च बोधिसत्वान् निश्चरित्वा सत्त्वानां ज्ञानमण्डलं द्योतयमानान्, ज्ञानपारमितापरिशुद्धि5 संप्रयुक्तान् पूर्वयोगनेवान् सर्वरोमविवरेभ्यः प्रनुञ्चमानान्, सर्वबुद्धगुणज्ञानाभिज्ञावतीं ज्ञानभूमिं लोके प्रभावयनाणान्, सर्वबुद्धसंज्ञाभिज्ञावती ज्ञानभूमिं संदर्शयमानान्, सर्वप्रणिध्यभिनिर्धाराभिज्ञानाभिज्ञावती ज्ञानभूमिं परिदीपयमानान्, सर्वसत्त्वसंग्रहप्रणिध्यभिनिर्हारज्ञानाभिज्ञावतीं ज्ञानभूनिं त्रिख्यापयमानान्, सर्वसत्त्वनैरात्म्याखभावावताराभिज्ञावतीं ज्ञानभूमि विख्यापयमानान्, सर्वसत्त्वचित्तसागरव्यवलोकनाभिज्ञावतीं ज्ञानभूमिं प्रकाशयमानान्, 10 सर्वत्सत्त्वेन्द्रियविचयज्ञानाभिज्ञावतीं ज्ञानभूमिं प्रविभजमानान्, सर्वसत्त्वाशयाधिमुक्तिव्यवलोकनज्ञानाभिज्ञात्रतीं ज्ञानभूनिं संवर्णयमानान्, सर्वसत्त्वकर्मसागरावताराभिज्ञावतीं ज्ञानभूमिं विवरमाणान्, सर्वसत्त्वप्रणिधानसागरावतारज्ञानाभिज्ञावती ज्ञानभूमिं संदर्श्य ज्ञानपारमितायां सत्त्वान् प्रतिष्टापद्यमानान्, चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारकोऽपश्यत् ॥ ॐ४ मूर्धत उष्णीषविवरादसंख्येयबुद्धक्षेत्रपरमाणुरजः समांस्तथागतविग्रहान् वरलक्षणानुव्यञ्जन विशुद्धयलंकारान् प्रतप्तजाम्बूनदकनकपर्वतनिर्भासान् सर्वदशदिक्प्रतापनाप्रमाणदीप्तप्रभामण्डलधर्मधातुनयस्फरणघोषान् अनन्तमध्यबुद्धविकुर्वित संदर्शनान् सर्वजगदसंभिन्नधर्ममेघानभिप्रवर्षमाणान्, यदुत बोधिमण्डवरगतानां बोधिसत्त्वानां समन्तधर्मधातुतलभेदाभिमुखज्ञानमेधं नाम 'धर्ममेघवर्षमभिप्रवर्षमाणान्, अभिषेकप्राप्तानां बोधिसत्त्वानां 20 समन्ततलमेवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, महाधर्मयौवराज्याभिषिक्तानां बोधिसत्त्वानां समन्तमुखप्रवेशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान् कुमारभूतानां बोधिसत्त्वानां समन्तव्यूहं नाम धर्ममेघवर्पमभिप्रवर्षमाणान्, अविवर्त्यानां बोधिसत्त्वानां महाकरुणादृढकूटं नाम धर्म - मेघवर्षमभिप्रवर्षमाणान्, शुद्धाध्याशयानां बोधिसत्त्वानां सर्वधर्मस्वभावभेदज्ञानवज्रं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, पूर्वयोगसंपन्नानां बोधिसत्त्वानां समन्तजगत्संग्रहव्यूहं नाम धर्म - 25 मेघवर्षमभिप्रवर्षमाणान्, जन्मजानां बोधिसत्त्वानां त्र्यध्वतथागतपर्षन्मण्डलाभिमुखविज्ञप्तिमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, योगाचाराणां बोधिसत्त्वानां सर्वधर्मस्वभावतलनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, आदिकर्मिकाणां बोधिसत्त्वानां महाकरुणानयोपायगर्भमेघसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान् प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां प्रग्रहकोशोपचयगर्भं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, उदाराधिमुक्तिकानां बोधिसत्त्वानामक्षय30 विमोक्षतथागतप्रणिधिप्रग्रहकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, रूपावचराणां सत्त्वानां समन्तताक्षयकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान् ब्रह्मकायिकानां देवानामप्रमाणनय१ B om. ऋद्धि... प्रतिष्ठापयमानान्. 15
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy