________________
७२
91
गण्डव्यूहसूत्रम् । जालमण्डलगर्भमणिराजशरीरेषु क्षेत्रेषु लोहितनुक्तावर्णां प्रभां प्रमुञ्चमानानि, एकरत्नमयेषु क्षेत्रेषु नानारत्नवर्णां प्रभा प्रनुश्चमानानि, नानारत्नमयेपु क्षेत्रेषु एकरनवां प्रभा प्रमुञ्चमानानि, एवं सर्वबोधिसत्त्वपर्पन्नण्डलेनु अपरिमाणलत्त्वकार्यप्रयुक्तानि सर्वसत्त्वधर्मधातुं स्फरनामान्यपश्यत् सुचनः श्रेष्टिदारकः ॥ 6 विवरान्तरादृर्णाकोशादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् शशाङ्ककायान्निश्चरित्या
सर्वदेवेन्द्रानभिभवमानान्, कामरतिं सर्वलोके विनिवर्तयमानान्, बुद्धदर्शनरतिमनुवर्तयमानान् , अपरिमाणमत्त्वविनयप्रयुक्तान् दश दिशो धर्मधातुं स्फरमाणानपश्यत् ॥
___ ललाटादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् महाब्रह्मणो निश्चरित्वा प्रशान्तेर्यापथान्
ब्रह्मघोषनुदीग्यमाणान् सर्वबुद्धानध्येष्यमाणान् सर्वबुद्धानभिष्टवमानान् सर्वबोधिसत्त्वान् 36_10 प्रहर्पयमाणान् अपरिमाणसत्त्वकार्यप्रयुक्तान् दश दिशः सर्वधर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारकोऽपझ्यत् ॥
शिरस्तोऽसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् बोधिसत्त्वान्निश्चरित्वा नानावर्णसंस्थानविभूषितशरीरतां संदर्शयमानान् अनुव्यञ्जनविचित्रगात्रतां प्रभावयमानान् अनन्तमध्यप्रभा
मण्डलमेघान् प्रमुञ्चमानान् सर्ववुद्धानां पूर्वबोधिसत्त्वचर्यामारभ्य दायकप्रतिग्राहकवस्तुपरि15 त्यागप्रकारमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान् नानापारमितासंप्रयुक्तान् पूर्वयोगसमुद्रान् संदर्शयमानान् दानचर्या लोकस्य संवर्णयमानान् मात्सर्यमलं विनिवर्तयमानान् सर्वग्राहोत्सर्गे सत्त्वान्नियोजयमानान्, विचित्रसर्वरत्नालंकारालंकृतं लोकमधितिष्ठमानान् , दानपारमितायां सत्वान् प्रतिष्ठाप्य परिष्कारवशितायां प्रतिष्ठापयमानान् , सर्वलक्षणगुणान् संवर्णयमानान् , बुद्धलक्षणसंभवे हेतुमुपदिश्यमानानपश्यत् । असंख्येयवुद्धक्षेत्रपरमाणुरजः20 समांश्च वोधिसत्त्वान्निश्चरित्वा शीलपारमितां संवर्णयमानान् , सर्ववुद्धानां शीलपारमितासंप्रयुक्तान् पूर्वयोगसमुद्रान् सर्वरोमविवरेभ्यः संदर्शयमानान् , सर्वसत्त्वान् सर्वलोकगतिविषयेभ्यो विमुखीकृत्य तथागतविषयाभिमुखीकुर्वाणान् , कामलोकं विजुगुप्समानान् , विपर्यासपटलं लोके विकिरमाणान् , वितथपरिकल्पान् प्रशमयित्वा वोधिसत्त्वशीले संनियोजयमानान् , महाकरुणाशीलं संवर्णयित्वा तथागतशीलप्रतिलम्भाय बुद्धमार्गप्रतिपत्तिशीले सत्त्वान् 28 प्रतिष्ठापयमानान् , स्वप्नोपमां भवगतिं सत्त्वानां प्रभावयित्वा खप्नविधिसमवसरणतायै विषयपरिग्रहक्लेशवशितायां सत्त्वान् प्रतिष्ठापयमानानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चर्य सुवर्णवर्णच्छवितां लोकेऽभिद्योतयमानान् , अक्रोधानुपायासतायामखिलदुष्टाविनष्टाप्रतिहतचित्तायां सत्त्वान् प्रतिष्ठापयमानान्, सर्वतिर्यग्योनिगतिसमुच्छेदाय सर्वरोममुखेभ्यः क्षान्तिपारमितासंप्रयुक्तान् तथागतपूर्वयोगमेघान्निश्चारयमाणान् , क्षान्ति30 बले सत्त्वान् प्रतिष्ठापयमानान् , धर्मवशितायां सत्त्वानवभासयमानानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चर्य अनन्तबोधिसत्त्ववीर्यबलं संदर्शयमानान् , सर्व
१B निश्चर्य.