SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ४२] चित्रसेनपद्मावतीचरित्रम् [३६४-३७२ - सहायास्तादृशा ज्ञेया यादृशी भवितव्यता ॥३६४॥ मित्र' विना वृथा राज्यं वृथा देशो वृथा सुखम् । वृथा कोशी वृथा सैन्यं किं पुनर्जीवितं वृथा ॥३६॥ तद्वियोगातुरो नूनं प्राणत्यागं करोम्यहम् । इष्टवन्धुवियुक्तानां नान्यद् दुःखनिवारणम् ॥३६६।। विचिन्त्येति निजे चित्ते चित्रसेनो नराधिपः । मरणाय समुत्तस्थौ यावचिन्ताभगकुलः ॥३६॥ ज्ञात्वा तावदभिप्रायं चित्तं राज्ञीत्यचिन्तयत् । असमञ्जसमुत्पन्नं . राज्यक्षयनिवन्धनम् ॥३६८॥ आत्महानिश्च सर्वेषु लोकेषु वचनीयता । येन केनाप्युपायेन क्रियते काललड्डनम् ॥३६॥ राज्ञी हृदि विमृश्येति बभाष भूपति प्रति । नाथ कातरता त्याज्यालम्बनीया हि धीरता ॥३७०॥ प्रिय दुःखे समुत्पन्न मृत्युमिच्छन्ति कातराः। विवेकिनः पुनधीराः पुण्यं कुर्वन्ति भूरिशः ॥३७१॥ वल्लभैक उपायोस्ति करोषि मदचो यदि । दातव्यं दानशालायामर्थिनां दानमीहितम् ॥३७२।। तेन लुब्धाः समेष्यन्ति देशदेशान्तरस्थिताः । 1Zमंत्रि।
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy