SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ३३७-३४५] चित्रसेनपद्मावतीचरित्रम [३६ - वखाञ्चलेन मन्त्रीशो भीतो बिन्दुमपाकरोत् ॥३३॥ प्रबुद्धोथ धराधीशः किमेतदिति वेगतः । रत्नसाराभिधं मित्रमपृच्छद्विस्मयाकुलः ॥३३८॥ रत्नसारस्ततो मन्त्री कम्पमानवपुलतः । पतितः सङ्कटे काममितो व्याघ्र इतस्तटी ॥३३॥ यदि वच्मि यथातथ्यं भवाम्यश्ममयस्तदा । अलीकवचने प्रोक्ते नृपोन्यच्चिन्तयिष्यति ॥३४०॥ उपकारैर्न गृह्यन्ते सेवया न च पौरुषैः । दुर्जना इव राजानो नात्मीया हि कथञ्चन ॥३४॥ रत्नसारस्ततोमात्यश्चेतसीति व्यचिन्तयत् । स्वामिनोग्रे मृषाभाषां' न ब्रवीति बुधो यतः ॥३४२॥ सत्यं मित्रे प्रियं श्रीभिरलीकमधुरं द्विषाम् । . अनुकूलश्च सत्यञ्च वक्तव्यं स्वामिना सह ॥३४३॥' एनां वार्तामहं स्वामिन् कथयामि यदा तव । तदा दृषन्मयः शीघ्रं भविष्यामि न संशयः ॥२४४॥ जगाद जगतीपालस्तदा विस्मितमानसः । कथं वचनमात्रेण पाषाणत्वं' प्रजायते ॥३४।। 1 AZ मृषां । 2z omits this verse by oversight. 3 A Z पाखाणत्वं।
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy