________________
-
-
- -
-
३६ ] चित्रसेनपद्मावतीचरित्रम् [३१०-३१८
सम्पत्ती नियमः शक्ती सहनं यौवने व्रतम् । दारिद्रये दानमत्यल्पं महालाभाय जायते ॥३१०।। मायं व परकलतं जो मन्नई कंचणं कयारसमं । जीवेसु य कुणाई दयं सो पूरिसो जंगमं तित्थं ॥३११|| उपदेशमिति श्रुत्वा राजा राज्यधनादिषु । राग मुमोच वैराग्याजलात् कौसुम्भवस्ववत् ॥३१२।। वीरसेनो गृहे गत्वा पृष्ट्वामात्यं शुभे दिने । चित्रसेनाभिधं पुत्रं निजराज्ये' न्यवेशयत् ॥३१३।। शृण्वन्तु मद्वची भूषाः सर्वे मन्त्रीश्वरास्तथा । स्थापितोस्ति सुतो राज्ये माननीयो हि मत्समः ॥३१४।। त्यक्तमोहस्ततो राजा मुकलापयति प्रियाम् । भव्यरीत्या त्वया स्थेय दीक्षायां वयमुत्सुकाः ॥३१॥ इति राज्ञो वचः श्रुत्वा प्रियाप्येनं व्यजिज्ञपत् । स्वां विना प्राणनाथाहं कथं प्राणान् धराम्यमन् ॥३१६।। शृङ्गाराः सुन्दरास्तावत् तावद्राज्यं सुखप्रदम् । खीणां भोगा वरास्तावद् यावद् भतां हि सन्निधौ॥३१७।। वीरसेनस्ततोवादीत्तावकीनः सुतोप्ययम् । माल्यमानस्तवात्यन्त भविष्यति सुखप्रदः ॥३१८॥ 1A:निजे।