________________
२४६-२५४ ]
चित्रसेनपद्मावतीचरित्रम
[२६
-
मार्गश्रमपरिश्रान्ताः सनाता: सुखिनः समे ॥२४६॥ उपविष्टावधाभागे प्रशंसेने च दम्पती । विस्तारशीतलच्छायादिकं पादपसम्भवम् ।।२४७॥ सन्ध्यायामथ जातायां सुप्ताः सर्वेपि सैनिकाः । कुमारः सकलनोपि सुप्तो मार्गश्रमातुरः ॥२४८।। रत्नसारः समीपस्थः खड्गव्यग्रकराम्बुजः । स्वामिनं सुप्तमालोक्य जातः प्रहरिकम्तदा ॥२४६।। अधिष्ठाता वदे तत्र गोमुखाह्वानयक्षराट्र । चक्रेश्चयां च यक्षिण्या मार्क वासमुपस्थितः ॥२५०।। प्रभूतानीकसंयुक्त रूपमीनध्वजोपमम् । कुमारं सुप्तमालोक्य यक्षमित्याह यक्षिणी ॥२५१॥ कान्त कान्तान्वित्तः पुरायाधिक: सेनाविभूषितः। क एष कुमरः सुप्तः कुत्र वा याति पत्तने ॥२५२।। तता ज्ञानोपयोगेन ज्ञात्वा गोमुखयक्षपः । वृत्तान्त कुमारस्य पृष्टः प्राह प्रियां प्रति ।।२५३॥ श्रीवसन्तपुरस्वामिवीरसननृपात्मजः । रत्नमालाङ्गजन्मायं चित्रसेनकुमारकः ॥२५४॥ पित्रापमानिती रत्नसाराभिधसखः स्वयम् ।
17 स्वामी।