________________
चित्रसेनपद्मावतीचरित्रम
[२१६-२२७
-
-
-
-
-
-
--
-
-
-
-
--
-
आरोपितं धनुर्दृष्ट्वा कुमार्या कुमरम्य च । वरमाला गले क्षिप्ता परमानन्दतस्ततः ॥२१६।। अज्ञातस्य गले पुंसो दृष्ट्वा मालां प्रलम्बिताम् । रुष्टाः सर्वेपि भूपाला: सायुधाः समुपस्थिताः ।।२२०॥ अजानन्त्या कुमार्यासों बृतस्तत्कि महामहे । नीचात्मानं निहत्यैनं ग्रहीष्यामो वयं कनीम् ॥२२॥ उच्चैरेवं ब्रुवाणास्ते श्मश्रन्यस्तलसत्कगः । कठोरकवचत्रातपरित्रातवपुलताः ॥२२२।। तुरङ्गमगताः केचित् केचिदन्तावलस्थिताः । शताङ्गसंस्थिताः केचित् समामाय डुढौकिरे ॥२२३।। धनञ्जयाभिधं यक्षं चिन्तयित्वा म्बचेतमि । मारोपमः कुमारोपि रणायाभिमुखः स्थितः ॥२२४।। सङ्नामे दारुणे जाते कुमारेण समन्ततः । एकेनापि जिताः सर्वे मृगेशेन मृगा यथा ॥२२॥ राजा पद्मरथो यावनिवारयति भूपतीन् । अकस्मादाह भट्टश्च कुमारविरुदावलीः ॥२२६॥ श्रीवसन्तपुराधीशवीरसेननृपाङ्गजः । कुमारश्चित्रसेनोसौ चिरञ्जयतु भूतले ॥२२७॥ इति कर्णामृतं वाक्यं श्रुत्वा पद्मरथोषीत् ।