________________
चित्रसेनपद्मावतीचरित्रम्
[५७-६४
मन्त्रिपुत्रो बभाषे तं मित्र माङ्गीकृथा वृथा । आकाशपुष्पसङ्काशमेतत् कार्य हि दुष्करम् ॥५७।। हिया मणोरह' तं करे जं करवा समरत्थ । सग्गि सुरतरु मोरिया कोइ पसारइ हत्थ ॥५८॥ इतश्च राजपुत्रस्य पुण्यप्राग्भारयोगतः । समाँगात केवलज्ञानी साधुस्तत्र सुरैर्वृतः ॥५६।। कुमारः सह मित्रेण नमस्कृत्य मुनीश्वरम् । 'घिनयाभिनमन्मौलिरुपविष्टः कृताञ्जलिः ॥६०॥ देशनान्तेथ पप्रच्छ रत्नसाराभिधः सुधीः । कस्या रूपानुमानेन केन पाश्चालिका कृता ॥६१॥ एतद्वचनमाकर्ण्य बभाष मुनिपुङ्गवः । वत्साकर्णय मद्वाक्यं कर्णसारसुखप्रदम् ॥६२॥ वर्तते काशनाकर्णि काशनाभिवपत्तनम् । वसन्ति यत्र चत्वारो वर्णा विज्ञानकोविदाः ॥६३॥ अनेकचारुविज्ञान विश्वकर्मावतारकः । सूत्रधारो गुणाहानो गुणश्रीस्तस्य च प्रिया ॥६४॥ तत्कुक्षिसम्भवाः पञ्च नन्दना विधविश्रुताः। 17 मनोरथ। 2 Z अस०।
-