________________
Sāntınātha Jain Bhandāra Cambay
287 - ॥ॐ ॥ नमः श्रीदेवसरिगुरुपादुकाभ्यः ॥ यस्यारघट्टस्य घनोपदेशमालार्पितध्यानघटाघटीभिः । संसारकूपाद् भवभृज्जलानामूर्ध्व गतिः स्यात् स जिनोऽवताद् वः ॥ रागादिक्षपणपटुः स केवलश्री
र्जम्भारिव्रजमहितो यथार्थवाक्यः । नाभेयः स भवतु भूतये सदा न
स्तीर्थस्याधिपतिरयं च वर्धमानः ॥ . पायं पायं प्रवचनसुधा प्रीयते या प्रकामं
स्वैरं स्वैरं चरति कृतिना कीर्तिवल्लीवनेषु । दोग्धी कामान् नवनवरसै. सा भृशं प्रीणयन्ती __मादृग्वत्सान् जयति जगति श्रीगवी देवसूरेः ।। विशुद्धसिद्धान्तधुरा दधाना संसारनिस्सारकृतावधानाम् । श्राद्ध. सुधासिन्धुमिमा विशाला प्रामोति पुण्यरुपदेशमालाम् ॥ सत्यामपि सद्वृत्तौ वृत्तिममुष्याः करोम्यहृदयोऽपि ।
त्वरयति यस्मान्मामिह सविशेषकथार्थिना यत्नः ।। तत्रादौ मंगलाभिधेयादि प्रतिपादनायाह ॥ नमिऊण गाहा । अत्र पूर्वार्धेन निर्विघ्नमारब्धप्रकरणसमाप्त्यर्थमिष्टदेवतानमस्काररूपं मंगलमपरार्द्धन पुनरध्येतृश्रोतृव्याख्यातृप्रवृत्त्यर्थमभिधेयसम्बन्धौ साक्षादाह । अन्तः___ इति श्रीरत्नप्रभसूरिविरचितायामुपदेशमालाविशेषवृत्तौ चतुर्थो विश्रामः ॥ छ । ॥ * ॥ छ ।
नानारूपनरोत्तमैकवसतिर्नीरागतासंगत
पातालं परित स्फुरन्निह वृहद्गच्छोऽस्ति रत्नाकरः । स श्रीमन्मुनिचन्द्रसूरिसुगुरुस्तत्राभवद् भूरिभिः ।
शाखाभिर्भुवि यः प्रयागवटवद् विस्तारमुद्रामगात् ॥ साहित्यतर्कागमलक्षणेषु यद्रंथवीथी कविकामधेनुः । कस्योपकारं न चकार सम्यग् निःशेपदेशेषु च यद्विहारः ।।