SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 288 Catalogue of Palan-Leaf Mss. in the . शिष्यः श्रीमुनिचन्द्रसूरिगुरुभिर्गीतार्थचूडामणिः ____ पट्टे स्वे विनिवेशितस्तदनु स श्रीदेवस्वरिप्रभुः । आस्थाने जयसिंहदेवनृपतेयेनास्तदिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तम्भः समुत्तम्भितः ।। तत्पप्रभवोऽभवन्नथ गुणग्रामाभिरामोदयाः श्रीभद्रेश्वरसूरयः शुचिधियस्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभि. शुभकृते श्रीदेवमूरिप्रभोः शिष्यैः सेयमकारि सम्मदकृते वृत्तिविशेषार्थिनाम् ॥ श्रीदेवसूरिशिष्यभ्रातॄणां विजयसेनसूरीणाम् । आदेशस्यानृणभावमगममेतावताऽहमिह ॥ यदियमुपदेशमाला श्रावकलोकस्य मूलसिद्धान्तः । प्रायेण पठति चायं तदिहास्माभिः कृतो यत्नः । व्याख्यातृचूडामणिसिद्धनाम्नः प्रायेण गाथार्थ इहाभ्यधायि । कचित् क्वचिद् या तु विशेषरेषा सद्भिः स्वयं सा परिभावनीया ।। यदिह किंचिढनागमिकं क्वचिद् विरचितं मतिमन्दतया मया । तदखिलं सुधियः क्षमयामि च कृतकृपाः परिशोधयतादरात् ।। स्वस्य परस्य च सूक्तैर्वृत्तिर्विस्तारिता चकास्तीयम् । मणिखण्डमण्डलैरिव सुवर्णपूजा जिनेन्द्राणाम् ।। प्रकृता समर्थिता च श्रीवीरजिनाग्रतो भृगुपुरेऽसौ । अश्वावबोधतीर्थे श्रीसुव्रतपर्युपास्तिवशात् ।। संशोधिता च सन्निहितकतिपयैः सहृदयैरियं प्रायः । पुनरपि कण्टकशुद्धिः कार्या वः प्रार्थये सर्वान् । भास्वद्भास्वरकान्तकान्ततिलकं प्रक्षिप्तवज्राकृतं निर्यन्नीलशिलातलाशुपटलीदुर्वारदुर्वांकुरम् । यावन्मेरुमहीभृतं प्रति करोत्यारात्रिकोत्तारणं ताराभिर्द्धविलासिनी विजयता तावन्नवैषा कृतिः ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy